| YouTube Channel

अपेतः (apetaH)

 
E Bharati Sampat
Sanskrit
(वि) अप+इण्(गतौ)+क्तः। ‘निष्ठा’ ३.२.१०२। १.निवारितः, अपसृतः। ‘अपेतयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे’ माघः३.१। २.विचलितः, पलायितः। ३.मुक्तः। ‘उदवादनवन्द्यां तामवद्यादपेतः’ रघुः ७.७०। ४.अप+इण्(गतौ)+क्तः। ‘गत्यर्था०’ ३.४.७२।पलायितः।