| YouTube Channel

अपस्मारः (apasmAraH)

 
Apte
English
अपस्मारः [apasmārḥ] स्मृतिः [smṛtiḥ], स्मृतिः
f.
[अपस्मारयति स्मरणं विलोपयति, स्मृ-णिच्, कर्तरि अच्, or अपगतः स्मारः स्मरणं यतः]
Forgetfulness, loss of memory
स्मर ˚
Bh.*
1.89.
Epilepsy, falling sickness
Suśr. thus derives it
स्मृतिर्भूतार्थविज्ञान- मपश्च परिवर्जने अपस्मार इति प्रोक्तस्ततो$यं व्याधिरन्तकृत्
Apte 1890
English
अपस्मारः,
स्मृतिः f. [अपस्मारयति स्मरणं विलोपयति, स्मृ-णिच्, कर्तरि अच्, or अपगतः स्मारः स्मरणं यतः] 1 Forgetfulness, loss of memory
स्मर° Bh. 1. 89.
2 Epilepsy, falling sickness
Suśr. thus derives it
स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने अपस्मार इति प्रोक्तस्ततोयं व्याधिरंतकृत्
Hindi
Hindi
(मीटर) मिर्गी
Apte Hindi
Hindi
अपस्मारः
पुं*
- अपस्मृ+घञ्
स्मरण शक्ति का अभाव
अपस्मारः
पुं*
- अपस्मृ+घञ्
"मिरगी रोग, मूर्छा रोग "
E Bharati Sampat
Sanskrit
(पुं) अपस्मारयति स्मरणं विलोपयति अप+स्मृ(चिन्तायाम्)+णिच्+अच्(कर्तरि) ‘नन्दिग्रहि०’ ३.१.१३४। मूर्च्छारोगः, लालाधः(मृगी) ‘चिन्ताशोकादिभिः क्रुद्धा दोषा हृत्स्रोतसि स्थिताः। कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्वते’ भावप्र०।
Wordnet
Sanskrit
Synonyms:
अपस्मारः, प्रतानः, भ्रामरम्, मृगी, लालाधः, भूतविक्रिया
noun
रोगविशेषः- अङ्गविकृतिः यस्यां रोगी सहसा एव उन्मूर्छति।
"अपस्मारः असाध्यः रोगः नास्ति।"
Synonyms:
विस्मृतिः, विस्मरणम्, विस्मरणशीलता, अस्मृतिः, अस्मरणम्, अपस्मारः, प्रस्मृतिः, स्मृतिभ्रंशः, स्मृतिनाशः, स्मृतिहानिः, भ्रमः
noun
स्मृतिहीनस्य अवस्था भावो वा।
"मस्तके क्षतिः जाता अतः सः विस्मृत्या ग्रस्तः।"
शब्दकल्पद्रुमः
Sanskrit
अपस्मारः,
पुं,
(अपस्मर्य्यते पूर्व्ववृत्तं विस्मर्य्यतेऽनेन, अप + स्मृ + करणे घञ् ।) रोगविशेषः मृगीइति भाषा तत्पर्य्यायः अङ्गविकृतिः ला-लाधः भूतविक्रिया इति राजनिर्घण्टः
*
तस्य सामान्यरूपं ।“तमःप्रवेशः संरम्भो दोषोद्रेकहतस्मृतेः ।अपस्मार इति ज्ञेयो गदो घोरश्चतुर्व्विधः”
*
तस्य निदानपूर्व्विका सम्प्राप्तिः ।“चिन्ताशोकादिभिः क्रुद्धादोषा हृत्स्रोतसि स्थिताः ।कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्व्वते”
*
तस्य पूर्व्वरूपं यथा, --“हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता ।निद्रानाशश्च तस्मिंश्च भविष्यति भवत्यथ”
*
वातिकस्य रूपं ।“कम्पते प्रदशेत् दन्तान् फेनोद्वामी श्वसित्यपि ।परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात्”
*
पैत्तिकस्य रूपं ।“पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शनः
सतृष्णोष्णानलव्याप्तलोकदर्शी पैत्तिकः”
*
श्लैष्मिकरूपं ।“शुक्लफेनाङ्गवक्त्राक्षः शीतहृष्टाङ्गजो गुरुः ।पश्यन् शुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात्”
*त्रिदोषजरूपं ।“सर्व्वैरेभिः समस्तैश्च लिङ्गैर्ज्ञेयस्त्रिदोषजः”
*
असाध्यलक्षणं
अपस्मारः चासाध्यो यः क्षीणस्यानवश्च यः
*
अरिष्टलक्षणं ।“प्रस्फुरन्तं सुबहुशः क्षीणं प्रचलितभ्रुवं ।नेत्राभ्याञ्च विकुर्व्वाणमपस्मारो विनाशयेत्”
*
तस्य वेगकालः ।“पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः ।अपस्माराय कुर्व्वन्ति वेगं किञ्चिदथांन्तरं
देवे वर्षत्यपि यथा भूमौ वीजानि कानिचित् ।शरदि प्रतिरोहन्ति तथा व्याधिसमुच्चयाः”
इति माधवकरः
*
तस्य चिकित्सा यथा, --“तैलेन लशुनः सेव्यः पयसा शतावरी ।ब्राह्मीरसश्च मधुना सर्व्वापस्मारभेषजं
*
चूर्णैः सिद्धार्थकादीनां भक्षितैरथवापि तैः ।गोमूत्रपिष्टैः सर्व्वाङ्गलेपैः शाम्यत्यपस्मृतिः”
सिद्धार्थकादिः उन्मादोक्तः
*
“शिग्रुकट्वङ्गकिणिहीनिम्बत्वग्रसपाचितं ।चतुर्गुणे गवां मूत्रे तैलमभ्यङ्गने हितं”
कट्वङ्गः शोनापाठा किणिही चिरिचिरा
*
“निर्गुण्डीभववन्दाकनावनस्य प्रयोगतः ।उपैति सहसा नाशमपस्मारो महागदः
*
मनोह्वा तार्क्ष्यविष्ठा वा शकृत् पारावतस्य ।अञ्जनाद्धन्त्यपस्मारमुन्मादञ्च विशेषतः”
मनोह्वा मनःशिला तार्क्ष्यो गरुडः शकृत्विष्ठा
*
“यः खादेत् क्षीरभक्ताशी माक्षिकेण वचारजः ।अपस्मारं महाघोरं चिरोत्थं जयेद्ध्रुवं”
वचा घुरवच्
*
“कुष्माण्डकफलोत्थेन रसेन परिपेषितं ।अपस्मारविनाशाय षष्ठ्याह्वं पिबेत् त्र्यहं”
त्र्यहमिति एतस्य पानाद्दिवसत्रयेणैवापस्मारोप-शमो भवतीत्यभिप्रायः
*
“ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतं ।पुराणं स्यादपस्मारोन्मादग्रहहरं परं”
एतस्य प्रक्रिया पुराणं गोघृतं प्रस्थमितं वचा-कुष्ठशङ्खपुष्पीणां समुदितानां कुडवमितानां क-ल्केन प्रस्थमितब्राह्मीरसपिष्टेन पचेत् ब्राह्मी-घृतं
*
“कुष्माण्डकरसे सर्पिरष्टादशगुणे पचेत् ।यष्ट्याह्वकल्कं तत्पानमपस्मारविनाशनं”
कुष्माण्डकघृतं
*
“द्वौ कीटमेषौ विधिवदानीय रविवासरे ।कण्ठे भुजे वा संधार्य्य जयेदुग्रामपस्मृतिं”
अयन्तु कीटो नदीतीरे सिकतामध्ये तिष्ठति
*
“शिग्रुकुष्ठजलाजाजीलशुनव्योषहिङ्गुभिः ।वस्तमूत्रे शृतं तैलं नावनं स्यादपस्मृतौ”
जलं बालकं अजाजी जीरकः वस्तः छागः ।नावनं नस्यं
*
इत्यपस्माराधिकारः इतिभावप्रकाशः