| YouTube Channel

अपष्ठुः (apaSThuH)

 
E Bharati Sampat
Sanskrit
(पुं) अप+ष्ठा(गतिनिवृत्तौ)+कुः। ‘अपदुःसुषुस्थः’ उ०१.२५। १.कालः। (वि) २.वामभागः। ‘अपष्ठुः पुंसि काले वामे स्यादन्यलिङ्गकः’ मेदिनी ३.विरुद्धः, प्रतिकूलः। ४.अनुकूलः। ‘प्रतिकूलानुकूलार्थे अपष्ठुरमपष्ठु च’ वैज०। ५.विरुद्धम्, असत्यम् ‘तव धर्मराज इति नाम कथमिदमपष्ठु पठयते’ माघः१५.१७। ६.निर्दुष्टम् ७.सुन्दरम् ‘अपष्ठु चारौ निर्दोषे’ हैमः। ८.प्रतिकूलम् ‘अपष्ठु पठतः पठ्यमधिगोष्ठि शठस्य ते’ नैष०१७.९६।
शब्दकल्पद्रुमः
Sanskrit
अपष्ठुः,
पुं,
(अप + स्था + कु, सुषमादित्वात् षत्वं ।)कालः वामे त्रि इति मेदिनी
(समयः ।असत्यः विरुद्धार्थः प्रतिकूलः विपरीतः ।“तव धर्म्मराज इति नाम कथमिदमपष्ठु पठ्यते ।भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलंजनाः ।” इति माघः वामः दक्षिणेतरः ।)