| YouTube Channel

अपर्ण्णा (aparNNA)

 
वाचस्पत्यम्
Sanskrit
अपर्ण्णा स्त्री नास्ति पर्ण्णान्यपि वृत्तिसाधनानि यस्याः ।शैलराजदुहितरि उमायां सा हि शिवप्राप्त्यर्थं व्रतकालेपर्ण्णान्यपि त्यक्तवती यथोक्तं कुमारे “स्वयं विशीर्ण्णद्रुमपर्ण्ण-वृत्तिता परा हि काष्ठा तपसस्तया पुनः तदप्यपाकीर्ण्णमतः प्रियंवदाम् वदन्त्यपर्ण्णामिति तां पुराविद” इति“चतुर्थे त्यक्तपर्ण्णा अपर्ण्णाख्यामवाप सेति” शि०
पु०