| YouTube Channel

अपरः (aparaH)

 
Apte Hindi
Hindi
अपरः
पुं*
- -
हाथी का पिछला पैर
अपरः
पुं*
- -
शत्रु
E Bharati Sampat
Sanskrit
(पु) अपराति अप+रा(दाने)+कः। ‘आतश्चोपसर्गे ३.१.१३६। १.गजस्य पश्चात् पादः। ‘अपरः पश्चिमः पादः’ वैज०। ‘बद्धापराणि परितो निगडान्यलावीत्’ माघः५.४८। २.कृष्णपक्षः। ‘पक्षौ पूर्वापरौ शुक्लकृष्णौ’’ अमरः। ‘यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते’ मनुः३.२७८। ३.भाद्रपदकृष्णपक्षः, पितृपक्षः। ४.प्रतिपक्षः। (न) ५.अग्रिमकार्यम् ६. (वि) नास्ति परः यस्मात् ७.उत्तमः ‘स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे’ शाकु०२.९। ८.न परः। निकृष्टः। ‘अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्’ गीता ७.५। ९.भिन्नः, अन्यः। ‘अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे’ मनुः१.८५। १०.अनन्तरः। ‘अपरं भवतो जन्म परं जन्म विवस्वतः’ गीता ४.४। ११.अल्पदेशवृत्तिः। ‘सामान्यं द्विविधं प्रोक्तं परं चापरमेव व्यापकत्वात् परापि स्यात् व्याव्यत्वादपरापि च’ कारिका०१.८.९। १२.पश्चिमभागः। ‘पूर्वापरौ तोयनिधीवगाह्य स्थितः’ कुमा०१.१। १३.शत्रुः। ‘तमा समुद्रादपरे परे नृपाः’ माघः। (स्त्री) अपरा १४.पश्चिमसन्ध्या ‘पूर्वां सन्ध्यां जपन् तिष्ठेत् स्वकाले चापरां चिरम्’ मनुः। १५.गर्भाशयः, जरायुः। १६.ऋग्वेदादिविद्या ‘तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति’ श्रुतिः। १७.पश्चिमदिक् ‘प्रतीची तु पश्चिमा अपरा’ हैमः। ‘प्रतीची तु पश्चिमा अपरा’ हैमः। ‘पयसि प्रपित्सुरपराम्बुनिधेः’ माघः९.१। (अ) १८.अन्यत्, पुनः। १९.अर्वाचीनम् ‘अपरं गजपश्चार्धे स्याज्जरायौ तु योषिति इतरस्मिन्नपि तथाऽर्वाचीनेऽप्यलिङ्गकम्’ मेदिनी
Wordnet
Sanskrit
Synonyms:
अपरः, अपरम्, अपरे, अपरञ्च, अपिच
adjective
उक्ताद् ज्ञाताद् वा अधिकः।
"मातरं विना अपरः कः अस्ति भवतः गृहे।"
शब्दकल्पद्रुमः
Sanskrit
अपरः, त्रि, (न पृणाति प्रीणयति, पॄ + पचाद्यच, ततो नञ्समासः ।) अन्यः इतरः अर्ब्बाचीनः ।इति मेदिनी