| YouTube Channel

अपक्वः (apakvaH)

 
E Bharati Sampat
Sanskrit
(वि) पक्वः। १.अपरिणतः। २.आमः तण्डुलफलादिः। ‘अपक्वेन वर्तितव्यं फलमूलादिनापि वा’ स्मृतिः।
शब्दकल्पद्रुमः
Sanskrit
अपक्वः, त्रि, (न पच्यते, पच् + कर्म्मणि क्तः, ततोनञ्समासः ।) पक्वभिन्नः काँचा इति भाषा ।यथा, --“तैले विपर्य्ययं विद्यात् पक्वे चापक्व एव च” ।इति वैद्यकपरिभाषा तत्पर्य्यायः असिद्धं ।३ आमं असृतं इति रत्नमाला ।(“अपक्वे लवणं दद्यात् पक्वे दद्यात् मरीचकम्”
इति आप्तवाक्ये ।)