| YouTube Channel

अन्वितः (anvitaH)

 
E Bharati Sampat
Sanskrit
(वि) अनु+इण्(गतौ)+क्तः। ‘निष्ठा’ ३.२.१०२। १.युक्तः। २.परस्परं सम्बद्धः। ३.अनुगतः। ४.कृतान्वयपदादिः। ‘वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः’ सा०द०२.२।
Wordnet
Sanskrit
Synonyms:
युक्तम्, युक्तः, युक्ता, मिलितम्, मिलितः, मिलिता, अन्वितम्, अन्विता, अन्वितः
adjective
अपृथग्भूतं मिलितम् इत्यर्थः।
"अयि, प्रवातेन सर्वं जलं धूल्या युक्तम् अभवत्।"
शब्दकल्पद्रुमः
Sanskrit
अन्वितः, त्रि, (अनु + इण् + क्त ।) युक्तः मिलितः ।इति जटाधरः
कृतान्वयपदादिः यथा, --“पदार्थान्तरैरन्वितानां सङ्केतो गृह्यते” ।इति काव्यप्रकाशः
(पदानां योग्यताकाङक्षादिरूपान्वयसहितः ।परस्परं सम्बद्धः ।“वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः”
इति साहित्यदर्पणे ।)