| YouTube Channel

अन्यतरः (anyataraH)

 
E Bharati Sampat
Sanskrit
(वि) अन्य+डतरच् १.अन्यः, भिन्नः। ‘भिन्नार्थका अन्यतरः’ अमरः। २.भिन्नतरः, द्वयोः मध्ये निर्धारितः एकः। ‘अधर्मेण यः प्राह यश्चाधर्मेण पृच्छति तयोरन्यतरः प्रैति’ मनुः२.१११। ३.द्वयावच्छिन्नप्रतियोगिताकभेदवान् -न्या०। ‘अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाद्द्विबहुविषये निर्धारणे वर्तेते’ कैयटः।
शब्दकल्पद्रुमः
Sanskrit
अन्यतरः, त्रि, (अन्य + डतरच् ।) अन्यः इत्यमरः
भिन्नतरः द्वयोर्मध्ये निर्द्धारितैकः इति व्याक-रणं
दुयेर मध्ये एक इति भाषा ।(“अधर्म्मेण यः प्राह यश्चाधर्म्मेण पृच्छति ।तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति”
इति मनुः ।) न्यायमते द्वयावच्छिन्नप्रतियोगिता-कभेदः