| YouTube Channel

अन्यः (anyaH)

 
Hindi
Hindi
अन्य
E Bharati Sampat
Sanskrit
(वि) (अन्यत्) अन(प्राणने)+यः। ‘अघ्न्यादयश्च’ उ०४.१११। १.इतरः। ‘स एव त्वन्यः क्षणेन भवतीति विचित्रमेतत्’ नीतिश०४०। २.विलक्षणः, असदृशः। ‘अन्योऽसदृशेतरयोः’ मेदिनी ‘अन्यदुच्छृङ्खलं सत्त्वम्’ माघः२.६२। ३.अधिकः। ‘अन्यान् दश सुवर्णान् प्रयच्छ’ मृच्छ०। ४.उदासीनः। ‘साधारण्यान्निरातङ्कः कन्यामन्योऽपि याचते’ महावी०१.३१। (स्त्री) अन्या (न) अन्यत्
Wordnet
Sanskrit
Synonyms:
अन्यः, परः, पारक्यः, अनाप्तः, परजनः, अन्यजनः, अपरिचितः
noun
कुटुम्बात् समाजात् वा बहिः व्यक्तिः।
"परजनः समादर्तव्यः।"
अमरकोशः
Sanskrit
Word: अन्यः
Root: अन्यः
Gender: undefined
Number: undefined
Meaning(s):
single
Shloka(s):
3|3|16|2 वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥ (नानार्थवर्गः)
3|3|191|2 एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥ (नानार्थवर्गः)
3|3|192|2 उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥ (नानार्थवर्गः)
Synonym(s):
3|3|16|2 एकः (एक) (पुं)
3|3|16|2 (एक) (स्त्री)
3|3|16|2 एकम् (एक) (नपुं)
3|3|191|2 परः (पर) (पुं)
3|3|192|2 इतरः (इतर) (पुं) low, vile, another, rejected, the rest, expelled, the other, this - that, different from, the one - the other, remaining one of two
Related word(s):
परा_अपरासंबन्धः मनुष्यः
जातिः मनुष्यः
शब्दकल्पद्रुमः
Sanskrit
अन्यः, त्रि, (अन् + बाहुल्यात् यः ।) असदृशः ।इति मेदिनी
परः ।(“चातकतापशरण्यो जलधरभिन्नो भवे भवेत्को-ऽन्यः” इति नीतिमाला ।“सोऽयमन्येन वेगादुद्दामेनद्विरदपतिना सन्निपत्याभियुक्तः” ।इति उत्तरचरिते ।) तत्पर्य्यायः भिन्नः अन्य-तरः एकः त्वः इतरः इत्यमरः
विलक्षणः इति जटाधरः
एकतरः ।नोमः इति शब्दरत्नावली