| YouTube Channel

अन्नपाक (annapAka)

 
Shabdartha Kaustubha
Kannada
अन्नपाक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಡಿಗೆ ಮಾಡುವುದು
अन्नपाक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಹೊಟ್ಟೆಯಲ್ಲಿ ತಿಂದ ಆಹಾರವು ಜೀರ್ಣವಾಗುವಿಕೆ
वाचस्पत्यम्
Sanskrit
अन्नपाक
पु०
त० अन्नस्य ब्रीह्यादेर्लौकिकदहनेनविक्लित्त्यनुकूलव्यापाररूपे पचने, भुक्तान्नस्य जठरानलेन रस-रक्तादिरूपालरापादने तत्र लौकिकपाकः चूल्ल्युपरि-स्थापनपूर्व्वाधःसन्तापनादिर्लोकसिद्धः जाठरपाको यथापदार्थादर्शे योगार्ण्णवे “आयुष्यं भुक्तमाहारं वायुःकुरुते द्विधा संप्रविश्यान्नमध्यन्तु पृथक् किट्टं पृथग्जलम् ।अग्नेरूर्द्ध्वं जलं स्थाप्य तदन्नं जलोपरि जलस्याधः स्वयंप्राणः स्थित्वाग्निं धमते शनैः वायुना ध्मायमानो-ऽग्निरत्युष्णं कुरुते जलम् अन्नं तदुष्णतोयेन सम-न्तात् पच्यते पुनः द्विधा भवति तत् पक्वं पृथक् किट्टंपृथग्जलम् रसेन तेन ता नाडीः प्राणः पूरयते पुनः ।प्रतर्पयन्ति सम्पूर्ण्णास्ताश्च देहं समन्ततः रसः नाडी-मध्यस्थः शरीरे चोष्मणा भृशम् पच्यते पच्यमानस्तु भवेत्पाकद्वयं पुनः चर्म्मावेष्ट्य समन्ताच्च रुधिरञ्च प्रजायते”इति त्वगादिधातुपाकस्तु ४९ पृष्ठे उक्तः