अन्नं (annaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishअन्नं [अद्-क्त
अनित्यनेन, अन्-नन्
according to Yāska, from अद्, अद्यते अत्ति च भूतानि
or from आ-नम्, आ आभिमुख्येन ह्येतन्नतं प्रह्वीभूतं भवति भोजनाय भूतानां] 1 Food (in general)
अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते T. Up.
मेदोऽसृङ्मांसमज्जास्थि वदंत्यन्नं मनीषिणः Ms. 3. 182
अहमन्नं भवान्भोक्ता H. 1. 54 I am your prey &c.
चराणामन्नमचराः Ms. 5. 29.
2 Food as representing the lowest form in which the Supreme Soul is manifested, being the coarsest and last of the 5 vestures (कोश) in which the soul is clothed and passes from body to body in the long process of metempsychosis
“the nutrimentitious vesture or visible body in the world of sense” (स्थूलशरीर called अन्नमयकोश).
3 Boiled rice
अन्नेन व्यंजनं P. II. 1. 34.
4 Corn (bread corn)
ता (आपः) अन्नमसृजंत तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवति Ch. Up.
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । Ms. 3. 76
कृत° 9. 219
10. 86, 12. 65.
5 Water.
6 Earth (पृथिव्या अन्नहेतुत्वादन्नशब्दवाच्यता).
7 N. of Viṣṇu.
न्नः The sun (स हि अन्नहेतुवृष्टिहेतुः).
Comp.
अकालः = अनाकाल q. v.
अत्तृ,
आदिन्
आहारिन् eating food.
अद a. {1} eating food. {2} having a good appetite (दीप्ताग्नि). (
दः) N. of Viṣṇu.
अद्यं proper food, food in general
Ms. 3. 82, 4. 112, 11. 144.
आच्छादनं,
वस्त्रं food and clothing, food and raiment, the bare necessaries of life.
आयुः (अन्नायु) consisting of, living by, food, desirous of food ( अन्नबंधनः, अन्नजीवनः).
कालः hour of dinner
meal-time.
किट्टः = °मल q. v.
कूटः a large heap of boiled rice.
कोष्ठकः {1} a cupboard
granary. {2} Viṣṇu. {3} the sun.
गतिः f. the passage of food, gullet (cf. बहिःस्रोतस्).
गंधिः dysentery, diarrhœa.
ज,
जात a. produced from food as the primitive substance.
जलं food and water, bare subsistence.
तेजस् a. having the vigour caused by food.
द,
दातृ,
दायिन्,
प्रद a. {1} giving food
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः Ms. 4. 229. {2} epithet of Śiva.
दा N. of Durgā or Annapūrṇā.
दासः [अन्नेन पालितो दासः शाक. त.] a servant who works for food only, one who becoms a servant or slave by getting food only.
देवता the deity supposed to preside over articles of food.
दोषः {1} sin arising from eating prohibited food
Ms. 5. 4. {2} a defect in the food eaten
derangement of food or the humours of the body
आलस्यादन्नदोषाच्च मृत्युर्विप्राञ् जिघांसति Ms. 5. 4.
द्वेषः dislike of food, loss of appetite.
पतिः lord or possessor of food, epithet of Savitṛ, Agni, and Śiva.
पाकः cooking of food
digestion of food (by the fire in the stomach).
पू a. purifying food, epithet of the Sun.
पूर्ण a. filled with, possessed of, food. (
र्णा) a form of Durgā (the goddess of plenty)
°ईश्वरी N. of Durgā or a form of Bhairavī.
पेयं = वाजपेयं q. v.
प्रलय a. being dissolved into food after death.
प्राशः,
प्राशनं the ceremony of giving a new-born child food to eat for the first time, one of the 16 Saṃskāras performed between the 5th and 8th month (usually in the sixth, Ms. 2. 34) with preliminary oblations to fire (Mar. उष्टावण)
Ms. 2. 34
Y. 1. 12.
ब्रह्मन्,
आत्मन् m. Brahma as represented by food.
भक्त a. [अन्नार्थं भक्तः दासः] = अन्नदास q. v.
भुज् a. eating food, epithet of Śiva.
मय a. see below.
मलं {1} excrement, feces
P. VI. 1. 148 Sk. {2} spirituous liquor
सुरा वै मलमन्नानां Ms. 11. 94.
रक्षा precautions as to eating food.
रसः essence of food, chyle
food and drink, nutriment
नानाविधानन्नरसान् वन्यमूलफलाश्रयान् तेभ्यो ददौ Rām.
वस्त्रं = °आच्छादनं q. v.
विकारः {1} transformation of food, assimilation. {2} disorder of the stomach caused by indigestion. {3} seminal discharge (of man)
semen itself
cf. अन्नाद्रेतः संभवति.
व्यवहारः the law or custom relating to food, i. e. the custom of eating together or not with other persons.
शेषः leavings of food, offal.
संस्कारः consecration of food.
होमः a sacrifice (with 10 materials) connected with the Aśvamedha sacrifice.
Hindi
Hindiखाने का पदार्थ
शब्दकल्पद्रुमः
Sanskritअन्नं, (अद् + कर्म्मणि क्तः ।) स्विन्नतण्डुलं ।यथा, --“शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते ।आमं वितुषमित्युक्तं स्विन्नमन्नमुदाहृतं” ॥
इति श्राद्धतत्त्वधृतवशिष्ठवचनं ॥
तत्पर्य्यायः ।भक्तं २ अन्धः ३ भिस्मा ४ ओदनं ५ दीदिविः ६ ।इत्यमरः ॥
भिस्सा ७ । इति तट्टीका ॥
क्रूरं ८ ।इति राजनिर्घण्टः ॥
अट्टं ९ कसिपुः १० जीवातुः११ । इति जटाधरः ॥
कूरं १२ आपूपिकं १३जीवन्तिः १४ प्रसादनं १५ । इति शब्दरत्ना-वली ॥
* ॥
अस्य गुणाः । बुद्धिशुक्रप्रीतिपुष्टि-धात्विन्द्रियबलकारित्वं । गुरुत्वं । क्षुधाक्षयरोग-श्रमकार्श्यनाशित्वञ्च ॥
* ॥
नवान्नगुणाः । श्लेष्म-कारित्वं । स्वादुत्वं । सुस्निग्धत्वं । वृंहणत्वं । गुरु-त्वञ्च ॥
* ॥
पुराणान्नगुणाः । विरसत्वं । रूक्षत्वं ।पथ्यत्वं । अग्निकारित्वञ्च ॥
* ॥
उष्णान्नगुणाः ।प्रशंसनीयत्वं । हृद्यत्वं । अग्निकारित्वं । वायुश्लेष्म-नाशित्वं । रक्तपित्तप्रकोपकारित्वञ्च ॥
* ॥
अत्यु-ष्णान्नगुणः । बलनाशित्वं ॥
* ॥
शीतशुष्कान्नयो-र्गुणः । दुर्ज्जरत्वं ॥
* ॥
अतिक्लिन्नान्नगुणः । ग्लानि-कारित्वं ॥
* ॥
तण्डुलान्वितान्नगुणः । दुर्जरत्वं ॥
* ॥
जलधौतसद्योऽन्नगुणाः । शीघ्रपाकित्वं । हिमत्वं ।लघुत्वञ्च ॥
* ॥
रात्रिस्थितजलयुक्तान्नगुणौ । त्रि-दोषकोपकारित्वं । रूक्षत्वञ्च ॥
* ॥
भृष्टतण्डुलान्न-गुणौ । लघुत्वं । अग्निप्रदीपनत्वञ्च । इति राज-वल्लभः ॥
* ॥
धान्यं । इति राजनिर्घण्टः ॥
विष्णुः ।इति तस्य सहस्रनामभध्ये पठितं ॥
अदनीयद्रव्य-मात्रं ॥
अन्नसाधनं यथा, --“सुधौतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेत् ।तद्भक्तं प्रसृतं चोष्णं विषदं गुणवन्मतं” ॥
तद्गुणाः ।“भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु ।अधौतमस्रुतं शीतं गुर्व्वरुच्यं कफप्रदं” ॥
इति भावप्रकाशः ॥
* ॥
तद्दानफलं यथा, --“वारिदस्तृप्तिमायाति सुखमक्षय्यमन्नदः” ॥
अन्नस्य प्रजापतिर्द्देवता । अक्षयसुखप्राप्तिः फलं ।प्रतिग्रहे मुष्टिग्रहणं । इति शुद्धितत्त्वं ॥
अपि च, “ब्रह्महत्याकृतं पापं अन्नदानात् प्रणश्यति ।अन्नदः पापकर्म्मापि पूतः स्वर्गे महीयते” ॥
इति प्रायश्चित्ततत्त्वं ॥
* ॥
अथ प्रजापतिदैवतान्न-दानावर्त्तः । तत्र अन्नदानस्तुतिः । ब्रह्मपुराणे ।“अन्ने प्रतिष्ठिता लोका अन्नमाश्वक्षयं परं ।तस्मादन्नं प्रशंसन्ति सदैव पितृमानवाः ॥
अन्नस्य हि प्रदानेन नरो याति परां गतिं ।सर्व्वकामसमायुक्तः प्रेत्य चेहाधिकं शुभं” ॥
तथा, --“अन्नमूर्ज्जस्वलं लोके दत्त्वोर्ज्जस्वी भवेन्नरः ।सतां पन्थानमाश्रित्य सर्व्वपापैः प्रमुच्यते” ॥
महाभारते ।“अन्नदः पशुमान् पुत्त्री धनवान् भोगवानपि ।प्राणवांश्चापि भवति रूपवांश्च तथा नृप” ॥
तथा, --“अन्नदस्य मनुष्यस्य बलमोजो यशांसि च ।कीर्त्तिश्च वर्द्धते शश्वत्त्रिषु लोकेषु पाण्डव” ॥
आग्नेयपुराणे । अन्नस्तुत्यनन्तरं ।“तस्मादन्नं सदा देहि श्रद्धया नृपसत्तम ।ब्रह्महत्यादिकं पापं अन्नदस्य प्रणश्यति” ॥
तथा, --“अन्नदानात् परं दानं न भूतं न भविष्यति ।पुण्यं यशस्यमायुध्यं बलपुष्टिविवर्द्धनं ॥
सर्व्वमन्नस्य दानेन भवतीति विनिश्चयः ।महाकाञ्चनचित्राणि सेवितान्यप्सरोगणैः ॥
अन्नदस्योपतिष्ठन्ति विमानानि सुरालये ।भक्ष्यभोज्यमयाः शैला दिव्यरूपाद्यलङ्कृताः ॥
हृष्टपुष्टजना नित्यमुपतिष्ठन्ति चाग्रतः ।हस्त्यश्वरथयानैश्च क्रीडमानाश्च ते नराः” ॥
पद्मपुराणे ।“आपर्ब्बतनदी वापी पृथिवी सर्व्वकामदा ।विधिना तेन सा दत्ता योऽन्नं ददाति सर्व्वदा ।क्षुधिते यः प्रयच्छेत अन्नं श्रद्धासमन्वितः ।ब्रह्मणो भवने स वै ब्रह्मणा सह मोदते ॥
चान्द्रवारुणलोकाश्च याम्याः कौवेरकास्तथा ।गोलोको ब्रह्मलोकश्च सर्व्वे चान्ने प्रतिष्ठिताः ॥
ददत् कन्यामलङ्कृत्य हस्त्यश्वञ्च महाधनं ।अन्नदानस्य चैतानि कलां नार्हन्ति षोडशीं” ॥
विष्णुधर्म्मात्तरे ।“यावतो ग्रसते ग्रासान् विद्वान् विप्रः सुसंस्कृतः ।अन्नप्रदस्य तावन्तः क्रतवः परिकीर्त्तिताः” ॥
* ॥
अथान्नदानधर्म्माः । यमः ।“आदरेण च भक्त्या च यदन्नमुपदीयते ।तत् प्रीणयति पात्राणि मामृतं मानवर्ज्जितं ॥
दुर्लभस्तु मुदा दाता मुदा भोक्ता च दुर्लभः ।मुदा दाता च भोक्ता च तावुभौ स्वर्गगामिनौ ॥
योऽन्नं बहुमतं भुङ्क्ते यश्चान्नं नावमन्यते ।यश्चान्नं प्रीतितो दद्यात् तस्यान्नमुपतिष्ठते ॥
प्रीतितोऽन्नञ्च यो दद्यात् गृह्नीयात्योऽभिपूज्य च ।प्रीतितोऽक्षयमश्राति पूजितः स्वर्गमश्नुते ॥
यो दद्याद्विप्रियेणान्नं यश्चान्नं नाभिनन्दति ।तावुभौ नरके मग्नौ वसेतां शरदां शतं” ॥
* ॥
अथान्नदानविशेषफलविशेषपरिभाषा ।कूर्म्मपुराणे ।“गृहस्थायान्नदानेन फलं नाप्नोति मानवः ।आममेवास्य दातव्यं दत्त्वाप्नोति परां गतिं” ॥
अन्नदानेन पक्वान्नदानेन फलं नाप्नोति ।इति गृहस्थायामान्नदानेन यादृशं फलं तादृशंपक्वान्नदानेन नाप्नोतीत्यर्थः । गृहस्थस्यामान्नदानेसति तस्य पञ्चयज्ञनिष्पत्तेः ॥
* ॥
अथ सामान्यान्नदानं नन्दिपुराणे ।“अन्नाद्भुतानि जातानि देवा ह्यन्नाद्यकाङ्क्षिणः ।न तस्य पात्रादिविधिर्व्विना श्राद्धं प्रकीर्त्तितः” ॥
तथा, --“अपि कीटपतङ्गानां शुनां चाण्डालयोनिनां ।दत्त्वान्नं लोकमाप्नोति प्राजापत्यं समासतः ॥
बान्धवेभ्योऽतिथिभ्योऽन्नं पुत्त्रेभ्योऽन्नं प्रयच्छतः ।दीनान्धकृपणानाञ्च स्वर्गः स्यादन्नदायिनां ॥
ग्रासमात्रं नरो दत्त्वा अन्नानामन्नगृध्नवे ।स्वर्गे वसेत् समानान्तु शतं भोगैर्म्मनोरमैः ॥
ग्रासे ग्रासे फलं ह्येतद्विधिवत् परिकीर्त्तितं ।एतदेवायने प्रोक्तं द्विगुणं पुण्यगौरवं ॥
अन्नं विना कृशाङ्गस्य दत्त्वान्नं देशकालतः ।फलं पञ्चगुणं प्रोक्तं सर्व्वभावसमन्वित” ॥
सर्व्वभावसमन्वित इति सम्बोधनं । अत्र यज-मानः प्राणिमात्रेभ्यो गृहीतोदपूर्णताम्रपात्रःउदङ्मुखः सङ्कल्प्य यथेष्टकालावधि अन्नं दद्यात् ।तद्यथा । ओँ नन्दिपुराणोक्तप्राणिमात्रान्नदान-फलप्राप्तिकामोऽहं प्राणिभ्योऽन्नं दास्ये । तदवधियथासम्भवं प्राणिमात्रेभ्यः स्वगृहे अन्यत्र वाभक्तशालां कृत्वा अविच्छिन्नमन्नं देयं । अतएवधार्म्मिकास्ताम्रपट्टविलिखितां भूमिं समुपकल्प्यआचन्द्रार्कस्थायिनीं भक्तशालां ददाति ॥
* ॥
वायुपुराणे ।“क्षिप्रमत्युष्णमक्लिष्टं दद्यादन्नं बुभुक्षिते ।सव्यञ्जनं सदा स्निग्धं भक्ष्यं सत्कृत्य यत्नतः” ॥
क्षिप्रमतिथिप्राप्त्यनन्तरमेव । अक्लिष्टमनुपहतं ।भक्ष्यमप्रतिषिद्धं ।“तरुणादित्यसङ्काशं विमानं हंसवाहनं ।अन्नदो लभते तिस्रः कल्पकोटीस्तथैव च ॥
अन्नदानात् परं दानं न भूतं न भविष्यति ।अन्नाद्भूतानि जायन्ते जीवन्ति च न संशयः ॥
जीवदानात् परं दानं न किञ्चिदपि विद्यते ।अन्नाज्जीवति त्रैलोक्यं त्रैलोक्यस्येह तत्फलं” ॥
बुभुक्षितेभ्योऽन्नं पूर्व्ववत् संकल्प्य दद्यात् ।ओँ वायुपुराणोक्तान्नदानफलप्राप्तिकामोऽहं बुभु-क्षितेभ्यः सव्यञ्जनं स्निग्धमन्नं दास्ये । एवं सङ्कल्प्यबुभुक्षितानन्विष्य तेभ्यो यथोक्तमन्नं दद्यात् ॥
* ॥
महाभांरते ।“श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप ।स्वायम्भुवं महत् स्थानं स गच्छति नराधिप” ॥
श्रान्ताय क्षुधितायान्नं पूर्व्ववत् सङ्कल्प्य दद्यात् ।ओँ स्वायम्भुवस्थानप्राप्तिकामोऽहं श्रान्ताय क्षुधि-तायान्नं दास्ये । इति सङ्कल्प्य यथाकाले श्रान्तंक्षुधितमनुसन्धायान्नं तस्मै दद्यात् ॥
* ॥
तथा, --“सद्भ्यो ददाति यश्चान्नं सदैकाग्रमना नरः ।न स दुर्गाण्यवाप्नोति ह्येवमाह पराशरः” ॥
अभीष्टसमये सद्ब्राह्मणक्षत्त्रियवैश्यशूद्रेभ्योऽन्नंपूर्व्ववत् सङ्कल्प्य दद्यात् । ओँ महाभारतोक्तस-द्गोचरान्नदानफलप्राप्तिकामोऽहं सद्भ्योऽन्नं दास्ये ।ततः प्रभृति अभिमतकाले सद्भ्यो ब्राह्मणादि-भ्योऽन्नं दद्यात् ॥
* ॥
तथा, --“यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्त्तते ।श्रान्तायादृष्टपूर्व्वाय तस्य पुण्यफलं महत्” ॥
अपरिक्लिष्टमनुपहतं । यथोक्तप्राणिनेऽन्नं पूर्व्व-वत् सङ्कल्पयेत् । ओँ महापुण्यफलप्राप्तिकामोऽहंश्रान्तायाध्वगाय अदृष्टपूर्व्वायान्नं दास्ये । इतिसङ्कल्प्य यथाकालमध्वगमन्विष्य यथोक्तमन्नं तस्मैदद्यात् । अत्राध्वनि वर्त्तते इति शतृनिर्द्देशात्पथि गच्छते पथिकाय वर्त्मनि कुटीं कृत्वा तरु-तले चान्नं दद्यात् ॥
* ॥
विष्णुधर्म्मोत्तरे ।“मृष्टान्नं मानवो दत्त्वा मृष्टान्नार्थिनि काङ्क्षितं ।अक्षयं फलमाप्नोति स्वर्गलोकञ्च गच्छति” ॥
मृष्टं संस्कृतं । सव्यञ्जनमन्नं पूर्व्ववत् सङ्कल्प्य तद-र्थिभ्यो दद्यात् । विष्णुधर्म्मोत्तरोक्तमृष्टान्नाकाङ्क्षि-गोचरमृष्टान्नदानफलप्राप्तिकामोऽहं यथाशक्तिमृष्टान्नार्थिभ्यो मृष्टमन्नं दास्ये । इति सङ्कल्प्यमृष्टान्नार्थिनोऽनुसन्धाय तेभ्यो यथाशक्ति मृष्टान्नंदद्यात् ॥
* ॥
तथान्नदानप्रकरणे ।“सहस्रपरिवेशस्तु नरकन्तु न गच्छति ।विमानेनार्कवर्णेन स्वर्गलोके महीयते” ॥
सहस्रपरिवेशः सहस्रायमनुष्येभ्योऽन्नप्रदः ॥
यथा-सम्भवं सहस्राय मनुष्येभ्यो नित्यमन्नं पूर्व्ववत्सङ्कल्प्य दद्यात् । ओँ विष्णुधर्म्मोत्तरोक्तसहस्र-परिवेशनफलप्राप्तिकामोऽहं यथासम्भवं सहस्रायमनुष्येभ्यो व्यञ्जनादिसहितमन्नं दास्ये । इतिसङ्कल्प्य यथाशक्ति नानादिनैः सहस्रं मनुष्यान्भोजयेत् । देवलः ।“कृत्वापि पातकं कर्म्म यो दद्यादन्नमीप्सितं ।ब्राह्मणानां विशेषेण स निहन्त्यात्मनस्तमः” ॥
विशेषेण इत्यभिधानात् अब्राह्मणेऽपि फलमेतद्-भवत्येव । एवञ्च सामान्येनान्नदानमिदं । ईप्सित-मित्यर्थिनं स्पृष्ट्वा यथायथमभिमतमन्नमुत्पाद्यतेभ्यःपूर्व्ववत् सङ्कल्प्य दद्यात् । ओँ ब्राह्मणप्रमुख-नानावर्णेभ्य आत्मीयतमःक्षयकामोऽहं यथासम्भवंईप्सितमन्नं दास्ये । ततः प्रभृति यथायथमुप-स्थितेभ्य ईप्सितमन्नं दद्यात् । इत्यादि वल्लालसेन-कृतदानसागरे अन्नदानावर्त्तः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
