| YouTube Channel

अन्धः (andhaH)

 
Apte Hindi
Hindi
अन्धः
पुं*
- अन्ध+अच्
"जिसे आँख से दिखाई दे, अंधा"
अन्धः
पुं*
- अन्ध+अच्
"अस्पष्ट, धुंधला"
E Bharati Sampat
Sanskrit
(वि) अन्धयति अन्ध(दृष्ट्युपघाते)+णिच्+ अच् ‘नन्दिग्रहि०’ ३.१.१३४। १.चक्षुर्हीनः, दृष्टिहीनः। ‘अन्धो मत्स्यानिवाश्नाति नरः कण्टकैः सह’ मनुः८.९५। २.विवेकशून्यः। ‘क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम्’ वेणी०३.३०। (न) तिमिरम्, अन्धकारः। ‘अन्धं स्यात्तिमिरे दृष्टिहीनेऽन्धः’ विश्वः।
(न) अद्यते अद(भक्षणे+असुन्, नुम् धश्च ‘अदेर्नुम्धौ च’ उ०४.२०६। अन्नम् ‘भक्तमन्धोऽन्नम्’ अमरः। ‘द्विजातिशेषेण यदेतदन्धसा’ किरा०१.३९।
Wordnet
Sanskrit
Synonyms:
अन्धः
noun
परिव्राजकविशेषः।
"अद्य अन्धानां समूहः इतः अगच्छत्।"
Synonyms:
अन्धः, अन्धा
noun
नेत्रहीनः मनुष्यः।
"अन्धानां कृते ब्रेललिप्याः निर्मितिः जाता।"
Synonyms:
अन्धः, अन्धकः, अचक्षूः, विचक्षूः, गताक्षः, अनक्षः, दृष्टिहीनः, नेत्रहीनः, चक्षुहीनः
adjective
नेत्रेन्द्रियविकलः।
"श्यामः अन्धं जनं मार्गपारं नयति।"
शब्दकल्पद्रुमः
Sanskrit
अन्धः, त्रि, (अन्ध + अच् ।) चक्षुर्द्वयहीनः आन्धाआँध्ला इति हिन्दी भाषा तत्पर्य्यायः अ-दृक् इत्यमरः (“वृद्धोऽन्धः पतिरेष मञ्चक-गतः” इति साहित्यदर्पणे ।“अन्धो मत्स्यानिवाश्नाति नरः कण्टकैः सह ।यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभाङ्गतः” ।इति मनुः ।)
अन्धः, [स्]
क्ली,
(अन्ध + असुन् ।) अन्नं इत्य-मरः
कृदन्तरूपमाला
Sanskrit
1 {@‘अन्ध दृष्ट्युपघाते’@} 2 ‘उपसंहारे’ इत्येके।
अन्धकः-न्धिका, अन्दिधयिषकः-षिका
अन्धयिता-त्री, अन्दिधयिषिता-त्री
3 अन्धयन्-न्ती, अन्दिधयिषन्-न्ती
अन्धयिष्यन्-न्ती-ती, अन्दिधयिषिष्यन्-न्ती-ती
अन्धयमानः, अन्दिधयिषमाणः
अन्धयिष्यमाणः, अन्दिधयिषिष्यमाणः
अन्-अन्धौ-अन्धः
4 अन्धितम्-तः-तवान्, अन्दिधयिषितम्-तः-तवान्
अन्धः, 5 जनुषाऽन्धः, अन्दिधयिषुः
अन्धयितव्यम्, अन्दिधयिषितव्यम्
अन्धनीयम्, अन्दिधयिषणीयम्
अन्ध्यम्, अन्दिधयिष्यम्
ईषदन्धः-दुरन्धः-स्वन्धः
अन्ध्यमानः, अन्दिधयिष्यमाणः
अन्धः, अन्दिधयिषः
अन्धयितुम्, अन्दिधयिषितुम्
अन्धना, अन्दिधयिषा
अन्धनम्, अन्दिधयिषणम्
अन्धयित्वा, अन्दिधयिषित्वा
समन्ध्य, समन्दिधयिष्य
अन्धम् २, अन्धयित्वा २, अन्दिधयिषम्
अन्धिदयिषित्वा
प्रासङ्गिक्यः
01
=>
(२८)
02
=>
(१०-चुरादिः-१९२५। सक। सेट्-उभ-)
03
=>
[[आ। ‘यो ह्यच्छिद्रित एव वीर्यशतकृत् तस्मिन् पतत्यन्धयन् पिष्टाङ्गस्स ममार दण्डितखलस्येशस्य पादाङ्कितः। कृष्णोऽप्यश्रुजलाङ्गितेऽति सुखयत्यामुच्य पुष्पोत्करं देवौघे हृतदुःखने रसयति व्याकर्षदेनं क्षितौ।।’ (धा। का। ३-६२)]]
04
=>
[पृष्ठम्००२७+ २८]
05
=>
[[१। ‘पुंसाऽनुजो जनुषान्ध इति वक्तव्यम्’ (६-३-३-वा।) इति तृतीयायाः अलुक्।]]