| YouTube Channel

अन्तेवासी (antevAsI)

 
E Bharati Sampat
Sanskrit
(पु) (अन्तेवासिन्) अन्ते समीपे वसति अन्ते+वस(निवासे)+णिनिः। ‘सुप्यजातौ णिनिः०’ ३.२.७८। १.शिष्यः ‘कृशाश्वान्तेवासी कुशिकपतिराज्ञापयति वः’ महावी०। २. ग्रामादेः अन्ते वसति चण्डालः। (वि) ३.प्रान्तगः, अन्त्यस्थायी ‘अन्तेवासी शिष्येऽपि स्याच्चण्डाले प्रान्तगेऽपि च’ मेदिनी (स्त्री) अन्तेवासिनी
Wordnet
Sanskrit
Synonyms:
अन्तेवासी
noun
विद्याम् अध्येतुं गुरुसमीपे यः वसति।
"प्राचीने काले अन्तेवासिनेभ्यः शिक्षणं दीयते स्म।"
Synonyms:
शिष्यः, छात्रः, अन्तेवासी, अन्तेसत्, अन्तेषदः
noun
यं शिक्षयति।
"शिष्यस्य गुरोः सह सुदृढाः सम्बन्धाः आवश्यकाः।"
Synonyms:
अन्तेवासी
adjective
यः गुरुकुले वसति।
"कृष्णः अन्तेवासी भूत्वा ज्ञानं प्राप्तवान्।"
Synonyms:
छात्रः, शिष्यः, विद्यार्थी, अन्तेवासी, पाटलिकः, पाठकः, प्रवालः, मोकम्, वज्रम्, विनेयः
noun
यः विद्याभ्यासं करोति।
"अस्यां कक्षायां पञ्चविंशति छात्राः सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
अन्तेवासी, [न्]
पुं,
(अन्ते विद्यामध्येतुमध्यापक-समीपे वसति चण्डालपक्षे तु नीचजातितयाग्रामप्रान्ते वसति शयवासेत्यलक्, अन्त + वस्+ णिनि ।) शिष्यः ।(“कृशाश्वान्तेवासी कुशिकपतिराज्ञापयति वः” ।इति महावीरचरिते ।“तात ! प्राचेतसान्तेवासी लवोऽभिवादयते” ।इति उत्तरचरिते ।) चण्डालः इत्यमरः
प्रान्त-स्थायिनि त्रि
इति विश्वः