| YouTube Channel

अन्तर्गतं (antargataM)

 
शब्दकल्पद्रुमः
Sanskrit
अन्तर्गतं, त्रि, (अन्तः अन्तकरणात् गतं, अथवाअन्तर्मध्ये गतं प्राप्तम् ।) विस्मृतं मध्यप्राप्तं ।इति हेमचन्द्रः
(“अन्तर्गतशवे ग्रामे” इति मनुः ।“सागरान्तर्गताः केचित्केचित् पर्ब्बतमाश्रिताः” ।इति रामायणम् आभ्यन्तरः हृदयमध्यस्थितः ।अन्तःकरणस्थः “अन्तर्गतप्रार्थनमन्तिकस्थं” ।इति शाकुन्तले ।“आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन ।नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः”
इति मनुः ।)