| YouTube Channel

अन्तरः (antaraH)

 
E Bharati Sampat
Sanskrit
(अ) अम्(गतौ)+अरन् तुडागमश्च ‘अमेस्तुट् च’ उ० ५.६० इदं क्रियाभिः सह उपसर्ग इव प्रयुज्यते तथा सम्बन्धबोधकाव्ययत्वेन गृह्यते १.मध्ये ‘अन्तर्जलौघमवगाढवतः कपोलौ’ माघ० ५.३८ २.अन्तः अन्तर्भागः। ‘अन्तः शाक्ताः बहिः शैवाः०’ तन्त्रम् ३.अधः। (क्रियावि.) ‘अदह्यतान्तः’ रघु० २.३२ ‘अन्तर्यश्च मृग्यते’ विक्रम० १.१ ‘अनाविल धियामन्तश्चिन्तामणिरिव स्फुरन्’ याद० १.५२ ४.अन्तरङ्गम्, हृदयम्
(पुं) अन्तं राति ददाति अन्त+रा(दाने)+कः। ‘आतो० कः’ ३.२.३। १.परिधानवस्त्रम् ‘अन्तरे शाटकाः’ २.परमात्मा (न) ३.अवकाशः। ‘मृणालसूत्रान्तरमप्यलभ्यम्’ कुमा०१.४०। ४.अवधिः। ‘मासान्तरं देयम्’ ५.भेदः, विेशेषः। ‘यदन्तरं वायसवैनतेययोः’ रामा०। ६.मध्यम् ‘गीतान्तरेषु श्रमवारिलेशैः’ कुमा०३.३८। ७.व्यवधानम्, मध्यदेशः। ‘तदन्तरे सा विरराज धेनुः’ रघुः२.२०। ८.स्थानम् ‘लेभेऽन्तरं चेतसि नोपदेशः’ रघुः६.६६। ९.तादर्थ्यम् ‘अवैमि कार्यान्तरमानुषस्य’ रघुः१६.८२। १०.दौर्बल्यम् ‘सुजयः खलु तादृगन्तरे’ किरा०२.५२। ११.अवसरः। ‘अत्रान्तरे किमपि वाग्विभवातिवृत्तवैचित्र्यमुल्लसितविभ्रममायताक्ष्याः’ मालती०१.२९। १२.विना ‘हरे त्वदालोकनमन्तरेण’ १३.अन्तर्धानम्, अन्तर्धिः। ‘पर्वतान्तरितो रविः’ १४.भिन्नम्, अन्यत् ‘पात्रविशेषे न्यस्तं गुणान्तरं व्रजति ०शिल्पमाधातुः’ मालवि०१.६। १५.विवरम्, रन्ध्रम् १६.अवसानम् १७.बहिः। ‘अन्तरे चण्डालगृहाः’ (वि) १८.मध्यस्थितः। १९.समीपस्थः। २०.सदृशः। ‘स्थानेऽन्तरतमः’ पा०१.१.५०। २१.अन्यः। २२.बाह्यः। २३.आत्मीयः, स्वीयः। ‘न चैतदिष्टं माता मे यदवोचन्मदन्तरम्’ रामा०। ‘अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये छिद्रात्मीयविनाबहिरवसरमध्यसदृशेषु’ मेदिनी ‘अन्तरः परिधानीये०। विशेषविवरान्तर्धिष्वसानविनार्थयोः’ वैज०।