| YouTube Channel

अन्तरं (antaraM)

 
Hindi
Hindi
के बीच में
शब्दकल्पद्रुमः
Sanskrit
अन्तरं,
क्ली,
(अन्तं राति ददाति, अन्त + रा + कः, उपपदसमासः ।) अवकाशः अवधिः परि-धानं अन्तर्धानं भेदः तादर्थ्यं अवसरः ।मध्यं अन्तरात्मा छिद्रं आत्मीयः विना ।वहिः इत्यमरः
सदृशः इति तट्टीका मेदिनीच
*
अवकाशे यथा “मृणालसूत्रान्तरमप्य-लभ्यं” इति कुमारसम्भवे
अवधौ यथा ।“निरन्तराभ्यन्तरवातवृष्टिषु”
परिधाने यथा ।अन्तरे शाटकाः परिधानीया इत्यर्थः
अन्तर्द्धौयथा, “पर्ब्बतान्तरितो रविः”
भेदे यथा, --“यदन्तरं सर्षपशैलराजयो-र्यदन्तरं वायसवैनतेययोः” ।इति रामायणं
तादर्थ्ये यथा त्वामन्तरेण ऋणंगृहीतं त्वदर्थमित्यथेः
छिद्रेयथा “प्रहरेदन्तरेरिपुं”
आत्मीये यथा “अयमत्यन्तरो मम”
विनार्थे यथा “हरे त्वदालोकनमन्तरेण”
वहिरर्थे यथा अन्तरे चण्डालगृहा वाह्याइत्यर्थः
अवसरे यथा “अत्रान्तर कुलटाकुलवर्त्मपातेत्थादि”
मध्येयथा “आवयोर-न्तरे जाताः पर्ब्बताः परितो द्रुमाः”
सदृशेयथा “हकारस्य घकारोऽन्तरतमः” इतिभरतः