| YouTube Channel

अन्तकः (antakaH)

 
Apte Hindi
Hindi
अन्तकः
पुं*
- अन्तं करोति-ण्वुल्
मृत्यु
अन्तकः
पुं*
- अन्तं करोति-ण्वुल्
"साकार मृत्यु, संहारक, यम, मॄत्यु का देवता्"
E Bharati Sampat
Sanskrit
(पुं) अन्तयति अन्तं करोति अन्त+णिच्+ण्वुल् ‘ण्वुल्तृचौ’ ३.१.१३३। १.मृत्युः। ‘व्याजेनापि कृता राजन्नो दर्शयति सान्तकम्’ नारदपु०। २.मृत्युदेवता यमः। ‘यमराड्यमः।०वैवस्वतोऽन्तकः’ अमरः। ‘ऋषिप्रभावान्मयि नान्तकोsपि प्रभुः प्रहर्तुम्’ रघुः२.६२। ३.विष्णुः, परमात्मा ‘महोदधिशयोऽन्तकः’ वि०स०। (वि) ४.संहारकः, घातकः। ‘क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम्’ वेणी०३.३०।
Wordnet
Sanskrit
Synonyms:
सीमा, मर्यादा, आघाटः, अवधिः, मर्या, अणी, आणिः, अणिः, आयत्तिः, अन्तः, अन्तकः, परिसीमा, सीमन्तः, पालिः, वेला, अवच्छेदः, परिच्छेदः
noun
कस्यापि प्रदेशस्य वस्तुनः वा विस्तारस्य अन्तिमा रेखा।
"भारतदेशस्य सीम्नि सैनिकाः सन्ति।"
Synonyms:
यमः, यमराट्, कृतान्तः, कालः, अन्तकः, वैवस्वतः, महिषध्वजः, महिषवाहनः, धर्मः, धर्मराजः, पितृपति, दण्डधरः, श्राद्धदेवः, शमनः, औडम्बरः, यमुनाभ्राता, दक्षिणदिक्पालः, दध्नः, भीमशासनः, शीर्णपादः, प्राणहरः, हरिः
noun
मृत्योः देवता, दक्षिणदिक्पालः यः जीवानाम् फलाफलम् नियमयति।
"दत्ताभये त्वयियमादपि दण्डधारे। "
Synonyms:
मृत्युः, मरणम्, निधनम्, पञ्चत्त्वम्, पञ्चता, अत्ययः, अन्तः, अन्तकालः, अन्तकः, अपगमः, नाशः, नाश, विनाशः, प्रलयः, संस्थानम्, संस्थितिः, अवसानम्, निःसरणम्, उपरतिः, अपायः, प्रयाणम्, जीवनत्यागः, तनुत्यागः, जीवोत्सर्गः, देहक्षयः, प्राणवियोगः, मृतम्, मृतिः, मरिमा, महानिद्रा, दीर्घनिद्रा, कालः, कालधर्मः, कालदण्डः, कालान्तकः, नरान्तकः, दिष्टान्तकः, व्यापदः, हान्द्रम्, कथाशेषता, कीर्तिशेषता, लोकान्तरता
noun
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
"ध्रुवो मृत्युः जीवितस्य।"
शब्दकल्पद्रुमः
Sanskrit
अन्तकः,
पुं,
(अन्तं विनाशं करोति, अन्त + करो-त्यर्थे णिच् ततो ण्बुल् ।) यमः इत्यमरः ।(“ऋषिप्रभावात् मयि नान्तकोऽपि प्रभुः प्रहर्तुंकिमुतान्यहिंस्राः” इति रघुवंशे ।)