| YouTube Channel

अन्तःकरणं (antaHkaraNaM)

 
शब्दकल्पद्रुमः
Sanskrit
अन्तःकरणं,
क्ली,
(अन्तर्मध्यवर्त्ति करणं ज्ञानसाधनं, कर्म्मधारयः, कृ + करणे ल्युट् ।) अन्तरिन्द्रियं ।धीन्द्रियं तत्पर्य्यायः मनः निगुः इतित्रिकाण्डशेषः
अस्य कार्य्यभेदान्नामचतुष्टयं, यथा, --“मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरं ।संशयो निश्चयो गर्व्वः स्मरणं विषया अमी”
इति वेदान्तः
(अस्योत्पत्तिर्यथा, -- “मिलितैस्तुतैः अन्तःकरणमेकं स्यात्” इति तैः पञ्चभूतस्थ-सत्त्वांशैर्मिलितैः अन्तःकरणं भवतीत्यर्थः ।“धनुर्भृतोऽप्यस्य दयार्द्रभाव-माख्यातमन्तःकरणैर्विशङ्कैः” ।इति रघुवंशे ।)