| YouTube Channel

अनुशयी (anuzayI)

 
Spoken Sanskrit
English
अनुशयी anuzayI
f.
disease of the feet
अनुशयी anuzayI
f.
boil or abscess on the upper part
अनुशयी anuzayI
f.
boil on the head
Monier Williams Cologne
English
अनु-शयी
f.
a disease of the feet, a boil or abscess on the upper part
a boil on the head.
E Bharati Sampat
Sanskrit
(वि) (अनुशयिन्) अनुशयः अस्य अस्ति अनुशय+इनिः। ‘अत इनि०’ ५.२.११५। १.पश्चात्तापवान् २.द्वेषवान् ३.अत्यन्तमासक्तः। ४.अनुरक्तः। ५.दण्डवत्प्रणामैः चरणमूले शयानः। ‘यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा’ भाग०।
(स्त्री) अनुशय्यते अनुतप्यते अनया अनु+शीङ्(स्वप्ने)+अच्+ङीष् ‘षिद्गौरादिभ्यश्च’ ४.१.४१। क्षुद्ररोगान्तर्गतः पादरोगविशेषः। ‘पादस्यानुशयीं तां तु विद्यादन्तः प्रपाकिनीम्’ माधवकरः।
शब्दकल्पद्रुमः
Sanskrit
अनुशयी,
स्त्री,
(अनुशय्यते अनुतप्यतेऽनया, अनु +शी + अच्, गौरादित्वात् ङीष् ।) क्षुद्ररोगान्त-र्गतपादरोगविशेषः तस्य लक्षणं ।यथा, --“गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थितां ।पादस्यानुशयीं तान्तु विद्यादन्तःप्रपाकिनीं”
इति माधवकरः
तच्चिकित्सा यथा, --“हरेदनुशयीं वैद्यः क्रियया श्लेष्मविद्रधेः” ।इति भावप्रकाशः
अनुशयी, [न्] त्रि, (अनु + शी + इनि ।) दण्ड-वत्प्रणामैश्चरणमूले शेते यः यथा “यं संपद्यजहात्यजामनुशयी सुप्तः कुलायं यथा” इतिश्रीभागवतं
(अत्यर्थमासक्तः अनुरक्तः पश्चा-त्तापयुक्तः अनुशोचनपरः ।)
वाचस्पत्यम्
Sanskrit
अनुशयी स्त्री अनुशय्यते पश्चात्तप्यतेऽस्याम् अनु + शीङ्-अधिकरणे अच् गौरा० ङीष् पादरोगभेदे, “हरेदनु-शयीं वैद्यः क्रियया श्लेष्मविद्रधेरिति” भावप्रकाशः