| YouTube Channel

अनुवासनः (anuvAsanaH)

 
E Bharati Sampat
Sanskrit
(पु) अनु+वास(उपसेवायाम्)+णिच्+ल्युट् ‘करणाधिकरणयोश्च’ ३.३.११७। १.स्नेहादिद्रव्यप्रयोजिका नलिका (पिचकारी) (न) अनु+वस(निवासे)+ल्युट्(भावे) ‘ल्युट् च’ ३.३.११५। २.स्नेहनम् ३.धूपनम् ‘अथोऽनुवासनम् स्नेहने धूपने च’ हैमः। ४.स्नेहबस्तिः, अजादिवस्तिचर्मघनवस्त्वादिनिर्मितेन पिचकारीति पसिद्धयन्त्रेण धातुवैषम्यदोषनाशाय लिङ्गद्वारेण योनिद्वारेण वा दीयमानं स्नेहादिद्रव्यम् ‘अथानुवासने स्नेहबस्तिधूपनयोरपि’ मेदिनी ‘द्विधा बस्तिः परिज्ञेयो निरूहश्चानुवासनम् कषायाद्यैर्निरूहः स्यात् स्नेहाद्यैरनुवासनम्’ वैद्यकम्