| YouTube Channel

अनुरागी (anurAgI)

 
E Bharati Sampat
Sanskrit
(वि) (अनुरागिन्) अनुराग+इनिः। ‘अत इनि०’ ५.२.११५। १.प्रणयी, प्रेमी, अनुरक्तः। २.आसक्तः, श्रद्धावान् (स्त्री) अनुरागिणी अनुरागिन्+ङीप् ‘ऋन्नेभ्यो ङीप्’ ४.१.५। ‘एषापि मदनायत्ता क्वापि सत्यानुरागिणी’ सा०द०३.७१।
Wordnet
Sanskrit
Synonyms:
मित्रम्, सुहृत्, सखा, बन्धुः, वयस्यः, स्निग्धः, स्नेही, बान्धवः, सहायः, अनुरागी, प्रणयी, हितः, हितकारी, प्रियकृत्, सजूः, अनुकूलः, विभावः, केलिकरः, सङ्गी
noun
यः सर्वदा सहायकः तथा शुभचिन्तकः।
"मित्रस्य परीक्षा आपत्तिकाले भवति।"
शब्दकल्पद्रुमः
Sanskrit
अनुरागी, [न्] त्रि, (अनु + रन्ज + कर्त्तरि घिनुणकुत्वं निपातनात् नलोपश्च ।) अनुरागविशिष्टः ।अनुरक्तः इति शब्दरत्नावली