| YouTube Channel

अनुरागः (anurAgaH)

 
Apte Hindi
Hindi
अनुरागः
पुं*
- अनु + रंज् + घञ्
लालिमा
अनुरागः
पुं*
- अनु + रंज् + घञ्
"भक्ति, आसक्ति, निष्ठा, प्रेम, स्नेह "
E Bharati Sampat
Sanskrit
(पु)अनु+रञ्ज(रागे)+घञ् ‘भावे’ ३.३.९८। १.प्रीतिः, रतिः। ‘रतिः पुनः। रागोऽनुरागः’ हैमः। ‘प्रियानुरागस्य मनः समुन्नतेः’ रघुः३.९०। २.आरुण्यम्, रक्तवर्णता ‘अनुरागवन्तमपि लोचनयोः’ माघः९.१०। ३.आसक्तिः, श्रद्धा (वि) अनुगतः रागम् ४.प्राप्तरक्तवर्णः।
Wordnet
Sanskrit
Synonyms:
वात्सल्यम्, स्नेहः, प्रीतिः, अनुरागः
noun
मातुः पुत्रे वर्तमानः प्रेमभावः।
"पुत्रान् पालयितुं मातुः वात्सल्यस्य आवश्यकता भवति।"
Synonyms:
स्नेहः, प्रीतिः, प्रेम, अनुरागः, अनुरक्तिः, रुचिः, अभिरुचिः, हार्द्दम्, प्रश्रयः, स्नेहभावः, प्रीतिभावः, प्रेमभावः
noun
कञ्चित् प्रति सौहार्दं कमपि अतिप्रियं मत्वा सर्वदा तत्सविधे वासार्थं प्रेरिका काचन मनोवृत्तिः वा।
"स्नेहः स्वार्थास्पदम्। / पुत्रे मम महान् स्नेहः।"
Synonyms:
वात्सल्यम्, वत्सलता, स्नेहः, प्रीतिः, अनुरक्तिः, अनुरागः, प्रेम
noun
कनीयसि ममता।
"नेहरुमहोदयस्य बालेषु महत् वात्सल्यम्। / पुत्र(स्य) वात्सल्यमपाकरिष्यति। "
शब्दकल्पद्रुमः
Sanskrit
अनुरागः,
पुं,
(अनु + रन्ज + भावे घञ् ।) प्रीतिः ।आसक्तिः तत्पर्य्यायः रतिः रागः अनु-तिः इति हेमचन्द्रः
(“कण्टकितेन प्रथयति मय्यनुरागं कपोलेन” ।इति शाकुन्तले ।)