| YouTube Channel

अनुपातकं (anupAtakaM)

 
Apte 1890
English
अनुपातकं [पातकं ब्रह्महत्यादि तत्सदृशं] A heinous crime such as theft, murder, adultery &c. 35 such sins are enumerated in Vishṇusmṛti
Manu mentions 30 kinds
See 11. 54-58.
शब्दकल्पद्रुमः
Sanskrit
अनुपातकं,
क्ली,
(पातयति निरयं प्रेरयति, पत् +णिच् + ण्वुल् पातकं ब्रह्महत्यादि तत्सदृशंप्रादिसमासः वेदनिन्दादिजन्यपापविशेषः ।तानि विष्णुना दर्शितानि, यथा, -- “यागस्थस्यक्षत्त्रियस्य वैश्यस्य रजस्वलायाश्चान्तर्व्वत्न्याश्चा-त्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य चघातनं ब्रह्महत्यासमानमिति” ।) महापातक-सदृशपापविशेषः ।तत् पञ्चत्रिंशत्प्रकारं, यथा, --समुत्कर्षे मिथ्यावचनं १तत् द्विविधं आत्मगामि ।असूयापूर्व्वकपरगामि ।राजगामि पैशुन्यं १पितुर्मिथ्यादोषकथनं १एतत्त्रयं ब्रह्महत्यासमं
३वेदत्यागः तु अधीतवेदविस्मरणं १वेदनिन्दा १कौटसाक्ष्यं १तद्द्विविधं ज्ञातस्याकथनं मिथ्याकथनञ्च ।सुहृद्बधः १स तु ब्राह्मणव्यतिरिक्तमित्रबधः ।ज्ञानपूर्व्वकाभ्यासेन गर्हितान्नस्य अर्थात् अन्त्य-जान्नस्य भक्षणं १ज्ञानपूर्व्वकाभ्यासेन गर्हिताद्यस्य अर्थात् छत्रा-कादेर्भक्षणं १एतत् षड्विधं सुरापानसमं
६निक्षेपहरणं १नरहरणं १अश्वहरणं १रजतहरणं १भूमिहरणं १हीरकहरणं १मणिहरणं १एतानि सप्त स्वर्णस्तेयसमानि
७सपीण्डस्त्रीगमनं १कुमारीगमनं १अन्त्यजागमनं १सख्युः स्त्रीगमनं १औरसेतरपुत्त्रस्त्रीगमनं १पुत्त्रस्यासवर्णस्त्रीगमनं १एतानि षट् विमातृगमनसमानि
६मातृष्वसृगमनं १पितृष्वसृगमनं १श्वश्रूगमनंमातुलानीगमनंशिष्यस्त्रीगमनंभगिनीगमन १आचार्य्यभार्य्यागमनं १शरणागतागमनं १राज्ञीगमनं १प्रव्रजितागमनं १धात्रीगमनं १साध्वीगमनं १वर्णोत्तमागमनं १एतानि त्रयोदश गुर्व्वङ्गना-गमनसमानि
१३इति प्रायश्चित्तविवेकसङ्ग्रहः
३५