| YouTube Channel

अनुदकः (anudakaH)

 
E Bharati Sampat
Sanskrit
(पुं) नास्ति उदकं यत्र १.उदकशून्या मरुभूमिः, ऊषरक्षेत्रम् २.न अल्पम् उदकं यत्र अल्पजलोपेतः कासारः। ‘उदन्वतीरनुदकाश्च याः’ ऋक् ७.५१.४। ३.जलतर्पणरहितं श्राद्धम्, उदकदानविशेषरहितः श्राद्धभेदः। ‘पुरोडाशमात्रा अनुदकाः’ कात्या०१०.५.११।