| YouTube Channel

अनादरः (anAdaraH)

 
Apte Hindi
Hindi
अनादरः
पुं*
- -
"अवहेलना, तिरस्कार, अवज्ञा"
E Bharati Sampat
Sanskrit
(पुं) २.न आदरः अनादरः। तिरस्कारः, अवहेलना, परिभवः। ‘अनादरः परिभवः’ अमरः। ‘गुणेषु रागो व्यसनेष्वनादरः’ पञ्चत०। २.नास्ति आदरः यस्य परमात्मा अवाप्तसमस्तकामत्वेन तस्य आदर्तव्याभावः। (वि) ३.आदरशून्यः, गौरवरहितः।
Wordnet
Sanskrit
Synonyms:
अनादरः, अपमानः, अवमानः, तिरस्कृतिः
noun
आदरस्य सम्मानस्य वा अभावः।
"अनादरे जाते अपि अहं अत्र निवसामि।"
Synonyms:
अनादरः
noun
अलङ्कारविशेषः।
"अनादरे प्राप्तवस्तुसदृशं अन्याप्राप्तवस्तुना प्राप्तस्य वस्तुनः अनादरः भवति।"
Synonyms:
अपमानः, भर्त्सना, निर्भर्त्सना, अवज्ञा, अवज्ञानम्, परिभवः, अवलेपः, अवहेला, अवहेलनम्, अनादरः, परिवादः, अनादरक्रिया, अपवादः, अवमानवाक्यम्, तिरस्कारवाक्यम्, तिरस्कारः, तिरस्क्रिया, परिभावः, परिवादः, वाक्पारुष्यम्, परिभाषणम्, असूर्क्षणम्, अवमानना, रीढा, क्षेपः, निन्दा, दुर्वचः, धर्षणम्, अनार्यम्, खलोक्तिः, अपमानक्रिया, अपमानवाक्यम्, विमानना
noun
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
"कस्यापि अपमानः करणीयः।"
शब्दकल्पद्रुमः
Sanskrit
अनादरः,
पुं,
(आ + दृ + भावे अप्, आदरः नञ्-समासः ।) निरादरः तत्पर्य्यायः परिभवः २परिभावः तिरस्क्रिया रीढा अवमानना ६अवज्ञा अवहेलं असूक्षणं इत्यमरः
असुक्षणं १० असुर्क्षणं ११ असूर्क्षणं १२ इतिभरतः
(“गुणेषु रागो व्यसनेष्वनादरः” इतिपञ्चतन्त्रं ।)