| YouTube Channel

अनवरतं (anavarataM)

 
शब्दकल्पद्रुमः
Sanskrit
अनवरतं,
क्ली,
(अव + रम् + भावे क्तः, नास्ति अव-रतं विरतिर्यत्र तत् ।) निरन्तरं तत्पर्य्यायः ।सततं अनारतं अश्रान्तं सन्ततं अवि-रतं अनिशं नित्यं अजस्रं प्रसक्तं १०आसक्तं ११ अनद्धं १२ इति जटाधरः
तद्विशिष्टे वाच्यलिङ्गं इत्यमरः
(“अनवरतधनुर्ज्यास्फालनक्रूरकर्म्मा” ।इति शाकुन्तले ।)