| YouTube Channel

अनपेतः (anapetaH)

 
E Bharati Sampat
Sanskrit
(वि) अपेतः बहिर्गतः अपगतः वा १.अनपगतः, अनुगतः। ‘धर्मपथ्यर्थन्यायादनपेते’ पा०४.४.९२। ‘धर्मादनपेतं धर्म्यम्’ सि०कौ०। २.अपरित्यक्तः, संयुक्तः। ‘ऐश्वर्यादनपेतमीदृशमयं लोकोऽर्थतः सेवते’ मुद्रा०१.२४। ३.अनतिक्रान्तः। ‘अनपेतकालमभिरामकथाः कथयांबभूवुरिति गोत्रभिदे’ किरा०६.३०।