| YouTube Channel

अनन्तरजः (anantarajaH)

 
E Bharati Sampat
Sanskrit
(पुं) अनन्तरस्यां, अनन्तरवर्णायां जायते अनन्तर+जनी(प्रादुर्भावे)+डः। ‘सप्तम्यां जनेर्डः’ ३.२.९७। १.अनन्तरं जातः, क्रमोढायां जातः पुत्रादिः। ब्राह्मणस्य क्षत्रियायां वैश्यायां वा जातः, क्षत्रियस्य वैश्यायां जातः। २.अनन्तरे जातः ज्येष्ठः कनिष्ठः वा सहोदरः। (स्त्री) अनन्तरजा ३.ज्येष्ठा कनिष्ठा वा स्वसा सहोदरी ‘अनुष्ठितानन्तरजाविवाहः’ रघुः ७.३२।