| YouTube Channel

अनन्तरः (anantaraH)

 
E Bharati Sampat
Sanskrit
(वि) नास्ति अन्तरं व्यवधानं यत्र १.व्यवधानरहितः, अनवकाशः, अव्यवहितः। व्यवधानं द्विविधम् - दैशिकं कालिकं कालिकम् अपि पूर्वोत्तरकालकृतभेदात् द्विविधम् दैशिकव्यवधानरहितः ‘एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः’ मनुः२.१९। पूर्वकालिकव्यवधानरहितः ‘अनन्तोदीरितलक्ष्मभाजाम्’ वृत्तर०। उत्तरकालिकव्यवधानरहितः‘तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम्’ कुमा०४.३२। २.समीपदेशस्थः, सन्निहितः, संसक्तः। ‘अव्यवहितेऽनन्तरं संसक्तम्’ हैमः। ‘अभिभूय हरत्यनन्तरः शिथिलं कूलमिवापगारयः’ किरा०२.५३। ३.न अन्तरं भिन्नजातीयं किञ्चित् यस्य चिदेकरसः परमात्मा अन्तरं छिद्रं यस्य ४.छिद्रशून्यः। (क्रि.वि.) नास्ति अन्तरं यथा स्यात् तथा ५.अव्यवहितकाले, पश्चात् ‘पुराणपत्रापगमादनन्तरम्’ रघुः३.७।