| YouTube Channel

अनन्तः (anantaH)

 
Hindi
Hindi
अनंत
Apte Hindi
Hindi
अनन्तः
पुं*
- -
"विष्णु की शय्या शेषनाग, कृष्ण, बलराम, शिव, नागों का पति वासुकि "
अनन्तः
पुं*
- -
बादल
अनन्तः
पुं*
- -
कहानी
अनन्तः
पुं*
- -
चौदह ग्रन्थियों से युक्त रेशमी डोरा जो अनन्त चतुर्दशी के दिन दक्षिण भुजा पर बांधा जाता है
E Bharati Sampat
Sanskrit
(पुं) नास्ति अन्तः गुणानां यस्य १.विष्णुः। ‘गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाः नान्तं गुणानां जानन्ति तेनानन्तोऽयमुच्यते ॥’ विष्णुपु०। २.आदिशेषः, शेषनगः। ३.शेषावतारः बलदेवः। ४.सिन्दुवारवृक्षः। ५.जिनभेदः, तीर्थकृद्भेदः। ६.मेघः। (न) अन्तः परिच्छेदः देशतः कालतः वस्तुतश्च नास्ति यस्य ७.परब्रह्म ‘सत्यं ज्ञानमनन्तं ब्रह्म’ तै.उ० २.१ ८.खम्, आकाशम् ९.अभ्रकम् (वि)नास्ति अन्तः सीमा विनाशः वा यस्य। अन्तरहितः, निरवधिः, अक्षयः। ‘अनन्तं खे निरवधावनन्तस्तीर्थकृद्भिदि विष्णौ शेषेऽपि’ हैमः। ‘अनन्तेनाप्यनेहसा’ याद०१६.११४। १०.समस्तः। ११.इयत्ताशून्यः, असीमः। ‘अनन्तरत्नप्रभवस्य यस्य हिमं सौभाग्यविलोपि जातम्’ कुमा०१.३।
Wordnet
Sanskrit
Synonyms:
अनन्तः
noun
रामानुजाचार्यस्य शिष्यः।
"अनन्तः रामानुजाचार्यस्य प्रमुखः शिष्यः आसीत्।"
Synonyms:
अनन्तनाथः, अनन्तः
noun
जैनतीर्थङ्करः।
"महोदयः अनन्तनाथः चतुर्दशतमः तीर्थङ्करः आसीत्।"
Synonyms:
अनन्तः
noun
तत् कुङ्कुमहरिद्रायुक्तं चतुर्दशग्रन्थियुक्तं सूत्रं यद् अनंत-चतुर्दश्यां बध्यते।
"पुरोहितः यजमानस्य भुजायाम् अनन्तं बध्नाति।"
Tamil
Tamil
அனந்த: : ஆதிசேஷன், விஷ்ணு, கிருஷ்ணன், பலராமன், சிவன், பாம்பரசன் வாசுகி, மேகம், கதை, ஸ்ரவண நட்சத்திரம்.
शब्दकल्पद्रुमः
Sanskrit
अनन्तः,
पुं,
(नास्ति अन्तः विनाशो यस्य सः, तथाहिभागवते “लोके नष्टे द्विपरार्द्धावसाने भवानेकःशिष्यते शेषसंज्ञः” ।) विष्णुः इति मेदिनी
बल-देवः अनन्तजिन्नाम जिनः इति हेमचन्द्रः
शेषनागः इत्यमरः
वासुकिः इति शब्द-माला
सिन्दुवारवृक्षः इति राजनिर्घण्टः
अनन्तः, त्रि, (नास्ति अन्तः सीमा विनाशो वायस्य सः ।) अन्तरहितः अनवधिः अशेषः ।असीमः इत्यमरो मेदिनी
(यथा कुमार-सम्भवे -- “अनन्तरत्नप्रभवस्य यस्य” ।)