| YouTube Channel

अध्यक्षः (adhyakSaH)

 
Apte Hindi
Hindi
अध्यक्षः
पुं*
- "अधिगतम् अक्षम् इन्द्रियम्, अध्यक्ष्णोति व्याप्नोति इति-अधि+अक्ष+अच्"
"अधीक्षक, प्रधान, मुख्य"
E Bharati Sampat
Sanskrit
(पु) अधिगतः अक्षं व्यवहारम् १.सभानायकः। २.अधिष्ठाता, सन्निधिमात्रेण नियन्ता ‘मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्’ गीता ९.१०। ३.अधिपतिः, स्वामी ‘यदध्यक्षेण जगतां वयमारोपितास्त्वया’ कुमा०६.१७। ४.क्षीरिकावृक्षः। ५.अधिकृतः, आयव्ययादिनिरीक्षकः। (न) अधिगतम् अक्षम् इन्द्रियम् ६.प्रत्यक्षज्ञानम्, इन्द्रियजन्यज्ञानम् ‘प्रत्यक्षोऽधिकृतेऽध्यक्षः’ अमरः।(वि) अध्यक्ष्णोति समन्तात् व्याप्नोति अधि+अक्षू(व्याप्तौ)+अच् ‘नन्दिग्रहि०’ ३.१.१३४। ७.व्यापकः। ८.प्रत्यक्षज्ञानगोचरः। (स्त्री) अधोमुखा/अधोमुखी ९.भिण्डीनकः।
Wordnet
Sanskrit
Synonyms:
नियंत्रकः, वशी, अधिकारी, शास्ता, अध्यक्षः, अधिष्ठाता
noun
यः कार्याणां वस्तुनः अवस्थानां वा नियन्त्रणं करोति।
"अस्मिन् विद्युतयन्त्रे एकः तापस्य नियन्त्रकः वर्तते।"
Synonyms:
राज्यपालः, अध्यक्षः, अधिपतिः, अधिष्ठाता, अधिकारी, अधिपः, शासिता, प्रशासिता, शास्ता, अनुशासकः, अधिकृतः
noun
केन्द्रशासनेन नियुक्तः राज्यस्य प्रधान शासकः।
"भारते राज्यपालस्य निर्वाचनं सामान्यवरणेन भवति।"
Synonyms:
अध्यक्षः, अधिष्ठाता
noun
यः सभायाः संस्थायाः वा प्रमुखः।
"सर्वसम्मतिपूर्वकः पंडित रामानुजः अस्याः संस्थायाः अध्यक्षः अभवत्।"
Tamil
Tamil
அத்4யக்ஷ: : தலைவர், அக்ராசனர், மேற்பார்வையாளர் .
शब्दकल्पद्रुमः
Sanskrit
अध्यक्षः,
पुं,
(अध्यक्ष्णोति समन्तात् व्याप्नोतिअधि + अक्ष् + अच् ।) (छत्रधारणादि व्यवहारे-ष्वधिकृतः व्यापकः ।) क्षीरिकावृक्षः इतिशब्दरत्नावली
अध्यक्षः, त्रि, (अक्षमिन्द्रियमधिगतः प्रादि-समासः ।) प्रत्यक्षः इन्द्रियजन्यज्ञानं ।(यदध्यक्षेण जगतां वयमारोपितास्त्वया
इति कुमारसम्भवे ।) अधिकृतः ।आयव्ययादिनिरीक्षकः इत्यमरः