| YouTube Channel

अधीरः (adhIraH)

 
E Bharati Sampat
Sanskrit
(वि) धीरः। १.भीतियुक्तः, धैर्यरहितः, कातरः। ‘अधीरे कातरः’ अमरः। २.अस्थिरः, च~चलः, चपलचित्तः। ‘अशक्नुवन् सोढुमधीरलोचनः’ माघः१.५३। ३.रोगादिना आकुलचित्तः। (स्त्री) ३.विद्युत् ४.नायिकाभेदः। ‘प्रियं मध्या देहेद्रोषादधीरा परुषोक्तिभिः’ सा०द०३.६१।
शब्दकल्पद्रुमः
Sanskrit
अधीरः, त्रि, (न धीरः स्थिरः नञ्समासः ।) चञ्चलः ।इति हलायुधः
कातरः इत्यमरः
(यथानागानन्दे, --“निर्व्याजं विधुरेष्वधीर इतिमां येनाभिधत्ते भवान्”
)