| YouTube Channel

अधिकाङ्गः (adhikAGgaH)

 
E Bharati Sampat
Sanskrit
(वि) अधिकम् अङ्गं यस्य १.विंशत्यङ्गुल्याद्यतिरिक्ताङ्गविशिष्टः। ‘अजाविघातने चैव अधिकाङ्गः प्रजायते’ शाता०। (न) अधिकम् अङ्गात् मयूर०। २.सारसनम्, कञ्चुकादिदार्ढ्यार्थं शूरैः मध्यकाये निबद्धपट्टिकादि ‘यत्तु मध्ये सकञ्चुकाः। बध्नन्ति तत् सारसनमधिकाङ्गः’ अमरः। (स्त्री) अधिकाङ्गा, अधिकाङ्गी ‘नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं रोगिणीम् ॥’ मनुः३.८।