| YouTube Channel

अधिकः (adhikaH)

 
Hindi
Hindi
अधिक से अधिक
E Bharati Sampat
Sanskrit
(वि) अध्यारूढः एव स्वार्थे कन्, उत्तरपदलोपश्च ‘न सामिवचने’ ज्ञाप०५.४.५। १.अतिरिक्तः, अतिशयितः। ‘इयमधिकमनोज्ञा वल्कमेनापि तन्वी’ शाकु०१.१७। २.श्रेष्ठः, उन्नतः। ‘सेनाशतेभ्योऽधिका (बुद्धिः)’ मुद्रा०१.२५। ३.असाधारणः, विशेषः। ‘इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा’ याज्ञ०५.११८। ४.अनन्तरीयः। ‘वैश्यस्य द्व्यधिके ततः’ मनुः२.६५। ५.महान्, ज्येष्ठः। ‘धनबन्धुवयःक्रियादिमात्रैरधिकेष्वप्यचमत्क्रिया विहत्यै’ याद०१५.६७। ६.विपुलः। ‘श्वासः प्रमाणाधिकः’ शाकु०१.२६। (न) ७.अर्थालङ्कारभेदः। ‘आश्रयाश्रयिणोरेकस्याधिक्येऽधिकमुच्यते’ सा०द०१०.७२। (अ) ८.आधिक्येन ‘स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ’ रघुः४.१।
शब्दकल्पद्रुमः
Sanskrit
अधिकः, त्रि, (अध्यारूढ एव अधि + स्वार्थे कन् ।)अतिरिक्तः अनेकः इति हेमचन्द्रः (पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः इतिमनुः ।)