| YouTube Channel

अधमः (adhamaH)

 
Apte Hindi
Hindi
अधमः
पुं*
- "अव्+अम, वस्य स्थाने धादेशः"
"निर्लज्ज, लम्पट "
E Bharati Sampat
Sanskrit
(वि) अव(रक्षणादौ)+अमः, वस्य पक्षे धः। ‘अवद्यावमाधमार्वरेफाः कुत्सिते’ उ०५.५४। १.नीचः, निकृष्टः, कुत्सितः। ‘याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा’ मेघः१.६। २.न्यूनः, ऊनः। ‘अधमौ न्यूनकुत्सितौ’ अमरः। ३.नॄणां वित्तज्ञानादिषु अधमत्वसूचकः रविचन्द्रयोः स्थितिविशेषरूपः योगभेदः। ‘अधमसमवरिष्ठान्यर्ककेन्द्रादिसङ्ख्ये शशिनि विनयवित्तज्ञानधीनैपुणानाम्’’ ज्यो०। ४.उपपतिभेदः भयदयालज्जाशून्यः कामक्रीडाविषये कर्तव्याकर्थव्याविचारकः।
Wordnet
Sanskrit
Synonyms:
अधमः, क्षुद्रः, नीचः, नराधमः, अवमः
noun
भयदयालज्जाशून्यः पुरुषः।
"अधमः नीचकार्यं कर्तुं बिभेति।"
Synonyms:
खलः, दुर्जनः, दुष्टः, अधमः, पिशुनः, दुर्विधः, विश्वकद्रुः, नृशंसः, घातुकः, क्रूरः, पापः, वञ्चकः
noun
यः दुराचरति।
"दुर्जनेन सह संगतिः करणीया।"
शब्दकल्पद्रुमः
Sanskrit
अधमः, त्रि, (अव पालने + अम, वस्य धादेशः ।)न्यूनः निन्दितः अपकृष्टः तत्पर्य्यायः निकृष्टः २प्रतिकृष्टः अर्व्वा रेफः याप्यः अवमः ७कुत्सितः अवद्यः कुपूयः १० खेटः ११ गर्ह्यः १२अणकः १३ इत्यमरः
रेपः १४ अरमः १५अणकः १६ अनकः १७ इति तट्टीका
(या-च्ञा मोघा वरमधिगुणे नाधमे लब्धकामा इतिमेघदूते)
अधमः,
पुं,
(अव पालने + अम, वस्य धादेशः ।) उप-पतिभेदः तस्य लक्षणं भयदयालज्जाशून्यत्वं ।कामक्रीडाविषये कर्त्तव्याकर्त्तव्याविचारकत्वञ्च ।इति रसमञ्जरी