| YouTube Channel

अतीसार (atIsAra)

 
शब्दसागरः
English
अतीसार
m.
(रः) Diarrhœa or dysentery. See अतिसार.
Yates
English
अतीसार (रः) 1.
m.
Diarrhoea.
Wilson
English
अतीसार
m.
(-रः) Diarrhoea or dysentery. See अतिसार.
Monier Williams Cologne
English
अति-सार or अती-सार, अस्,
m.
purging, dysentery.
अती-सार b See and अति-√ सृ.
Goldstucker
English
अतीसार m. (-रः) Diarrhœa or dysentery. See अतिसार.
Apte Hindi
Hindi
अतीसारः
पुं*
- अति - सृ+णिच्+अच्
"पेचिश, मरोड़ो के साथ दस्तों का आना"
L R Vaidya
English
ati(tI)sAra {% m. %} Dysentery.
शब्दकल्पद्रुमः
Sanskrit
अतीसारः,
पुं,
अतिसाररोगः इति वैद्यकं
वाचस्पत्यम्
Sanskrit
अति(ती)सार
पु०
अतिसारयति मलम् द्रवीकृत्य अति +सृ--णिच्--अच् वा अतेः दीर्घः रोगभेदे उदारामये ।तस्य निदानादि सुश्रुते उक्तं यथा “गुर्वतिस्निग्धरूक्षो-ष्णद्रवस्थूलातिशीतलैः विरुद्धाध्यशनाजीर्णैर्विषमैश्चापिभोजनैः स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः ।शोकाद्दुष्टाम्बुमद्यातिपानैः सात्न्यर्त्तुपर्य्ययैः जलाभिरम-णैर्वेगविघातैः कृमिदोषतः नृणां भवत्यतीसारो लक्षणंतस्य वक्ष्यते (तस्य संप्राप्तिः) “संशाम्यापां धातुरग्निंप्रवृद्धः शकृन्मिश्रो वायुनाधः प्रणुन्नः सरत्यतीवातिसारंतमाहुर्व्याधिं घोरं षड्विधं तं वदन्ति एकैकशः, ३सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः
(तस्य पूर्व्वरूपम्) हृन्नाभिपायूदरकुक्षितोद--गात्रावसादा-निलसन्निरोधाः विट्सङ्ग आध्मानमथाऽविपाको भविष्यत-स्तस्य पुरःसराणि (वायुजः) शूलाविष्टः सक्तमूत्रोऽन्त्र-कूजी स्रस्तापानः सन्नकट्यूरुजङ्घः वर्चोमुञ्चत्यल्पमल्पंसफेनं रूक्षं श्यावं सानिलं मारुतेन (पित्तजः) दुर्गन्ध्युष्णंवेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहोऽतितीक्ष्णम् पित्ता-त्पीतं नीलमालोहितं वा तृष्णा मूर्च्छा दाहपाकज्व-रार्त्त्योः (कफजः) तन्द्रानिद्रागौरवोत्क्लेशसादी वेगाशङ्कीसृष्टविट्कोऽपि भूयः शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तंभक्तद्वेषी निस्वनं सृष्टरोमा
(त्रिदोषजः) तन्द्रायुक्तेमोहमादास्यशोषी वर्चः कुर्य्यान्नैकवर्णं तृषार्त्तः सर्व्वोद्भूतःसर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः
(शोकजः)तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पो वेगः पक्तिमाविध्य-जन्तोः कोष्ठं गत्वा क्षोभयन् यस्य रक्तं तच्चाध-स्तात्काकनन्तीप्रकाशम्
वर्च्चोमिश्रं निः पुरीषं सगन्धंनिर्गन्धं वा सार्य्यते तेन कोष्ठात् शोकोत्पन्नो दुश्चि-कित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः
(आमजः) आमाजीर्णैः प्रद्रुताः क्षोभयन्तः कोष्ठं दोषाःसम्प्रदुष्टाः सभक्तम् नानावर्णं नैकशः सारयन्तिकृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति