| YouTube Channel

अतीतं (atItaM)

 
शब्दकल्पद्रुमः
Sanskrit
अतीतं, त्रि, (अति + इण् + क्तः) भूतकालः तत्रतिस्रो घी टी ठी विभक्तयो भवन्ति यथाभवद्भूतभव्ये त्रिशः क्याद्याः क्याद्याः क्तयस्तिस्र-स्तिस्त्रः क्रमाद्वर्त्तमानातीतभविष्यत्सु कालेषु स्युः ।इति मुग्धबोधव्याकरणं
तस्य लक्षणादि यथा ।वर्त्तमानध्वंसप्रतियोगित्वमतीतत्वं लङ्लुङोरती-तत्वं लिट्क्वसोर्व्वक्तुः परोक्षत्वं अतीतत्वञ्च ।लुङोऽतीतत्वं क्रियातिक्रमश्च कुतश्चिद्वैगुण्यात्क्रियानिष्पत्तिः क्रियातिक्रमः क्तक्तवत्वोरती-तत्वं इति सारमञ्जरी