| YouTube Channel

अण्डं (aNDaM)

 
शब्दकल्पद्रुमः
Sanskrit
अण्डं,
क्ली,
(अम् संयोगे भावे क्विप् अमं संयोगंडयन्ते गच्छन्त्यनेन अम् + डी + करणे डः ।पुंसोऽवयवभेदे मुष्के, पक्षिडिम्बे “तदण्डमभव-द्धैमं सहस्रांशुसमप्रममिति” मनुः ।) पक्ष्यादि-प्रादुर्भावककोषः अण्डा डिम् इति भाषा ।तत्पर्य्यायः पेशी कोषः इत्यमरः
पेशिः४ कोशः पेशीकोषः इति तट्टीका
डिम्बः इति मेदिनी
मत्स्यपक्षिकूर्म्माण्डानांगुणाः, --(“नातिस्निग्धानि वृष्याणि स्वादुपाकरसानि ।वातघ्नान्यतिशुक्राणि गुरूण्यण्डानि पक्षिणाम्”
इति वैद्यके
)स्वादुत्वं कटुपाकित्वं रुचिशुक्रकारित्वं वात-श्लेष्मनाशित्वञ्च इति राजवल्लभः
मुष्कः ।वीर्य्यं इति विश्वः
मृगनामिः इति केचित्