| YouTube Channel

अजेयः (ajeyaH)

 
E Bharati Sampat
Sanskrit
(वि) जेतुं योग्यः। नञ्+जि(जये)+यत् ‘अचो यत्’ ३.१.९७। १.जयायोग्यः, अजेतव्यः। ‘अजेयस्त्वं सङ्ग्रामे ममापि हि भविष्यति’ काशी०२३अ.। (न) २.विषहरः घृतविशेषः। ‘पिबेद्घृतमजेयाख्यम्’ सुश्रुतः।
शब्दकल्पद्रुमः
Sanskrit
अजेयः, त्रि, (न जेयः नञ् समासः) इति नञ् पूर्व्वक-जिधातोः कर्म्मणि यत्प्रत्ययः अजेतव्यः अ-जयनीयः यथा --“अजेयस्त्वञ्च संग्रामे ममापि हि भविष्यति” ।इति स्कान्दे काशीखण्डे २३ अध्यायः