अजीर्णं (ajIrNaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritअजीर्णं, (जॄ + क्तः, न जीर्ण्णं नञ्समासः) अपाकः ।तत्पर्य्यायः । वायुगण्डः २ अन्तर्वमिः ३ पलता-शयः ४ । इति त्रिकाण्डशेषः ॥
अथाजीर्णस्यविप्रकृष्टं निदानमाह । अत्यम्बुपानाद्विषमाश-नाच्च सन्धारणात् स्वप्नविपर्य्ययाच्च । कालेऽपिसात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ॥
सन्धारणात् क्षुद्वातमूत्रपुरीषादीनां । स्वप्नविप-र्य्ययात् दिवाशयनाद्रात्रौ जागरणात् । लघुचापीत्यपिशब्दात् स्निग्धोष्णादिगुणयुक्तमपि ॥
* ॥
अन्यच्च ।“ईर्षाभयक्रोधपरिप्लुतेनलुब्धेन रुग्दैन्यनिपीडितेन ।प्रद्वेषयुक्तेन च सेव्यमान-मन्नं न सम्यक् परिपाकमेति” ॥
परिप्लुतेन व्याप्तेन । उक्तकारणेभ्योऽतिमात्र-भोजनं विशेषादजीर्णस्य कारणमजीर्णञ्च बहु-व्याधीनां कारणमित्याह ।“अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः ।रोगानीकस्य ते मूलमजीर्ण्णं प्राप्नुवन्ति हि” ॥
अनात्मवन्तः अबुद्धिमन्तः । रोगानीकस्य विसू-च्यादेः । मूलं कारणं ॥
* ॥
अन्यच्च ।“प्रायेणाहारवैषन्यादजीर्णं जायते नृणां ।तन्मूलो रोगसंघातस्तद्विनाशाद्विनश्यति” ॥
तद्विनाशाद्विनश्यति अजीर्णविनाशात् विनश्यतिरोगसंघात इत्यर्थः । यद्वा तत् अजीर्ण्णं आशात्भक्षणात् विना भक्षणाभावे विनश्यति निवर्त्ततेइत्यर्थः ॥
* ॥
अजीर्ण्णस्य सामान्यस्य लक्षणमाह ।“ग्लानिर्गौरवमाटोपो भ्रमो मारुतमूढता ।विबन्धोऽतिप्रवृत्तिर्वा सामान्याजीर्ण्णलक्षणं” ॥
मारुतमूढता वायोरवरोधः । विबन्धः मला-प्रवृत्तिः ॥
* ॥
सन्निकृष्टकारणैः सहितानजी-र्णस्य भेदानाह ।“आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः” ।त्रिभिरित्येकशो न तु मिलितैः ।“अजीर्ण्णं केचिदिच्छन्ति चतुर्थं रसुशेषतः” ॥
केचित् सुश्रुतादयः ॥
रसशेषतः भुक्तस्य पक्वस्यसारभूतो यो द्रवः स रसः सोऽपि पच्यते । भुक्तस्यपक्वस्य सारभूतो यो द्रवः स चापक्वः स रस-शेषः तस्मात् चतुर्थमजीर्णं नत्वामाजीर्णं ॥
* ॥
नन्वामाजीर्णाद्रसशेषस्य को भेद उच्यते । आमंमधुरतागतमपक्वं अन्नमेव । रसशेषस्तु भुक्तस्यपक्वस्य सारभूतो यो द्रवः स चापक्व इति भेदः ।अजीर्ण्णं पञ्चमं केचित् निर्द्दोषं दिनपाकि च ।निर्द्दोषं गौरवभ्रमशूलादिदोषाजनकं । दिन-पाकि च आहारोऽहोरात्रेण पाकं यातीतिस्वभावः । यत्तु मात्राकालसात्म्यादिदोषाद्दिनान्तरेपाकं याति तद्दिनपाकि । अतएव याममध्ये नभोक्तव्यमिति वचनं, --वदन्ति षष्ठं चाजोर्ण्णं प्राकृतं प्रतिवासरं” ।प्राकृतं अविकारकं । प्रतिवासरं प्रतिदिन-भावि । भुक्तं यावन्नजीर्ण्णं तावदजीर्ण्णमित्युच्यते ।एतदभिधानस्य प्रयोजनं पाकार्थं वामपार्श्वशयन-प्रियशब्दादिसेवनादिकं । न चात्राहारस्य नि-षेधः । प्रातराशे त्वजीर्ण्णे तु सायमाशो न दुष्य-तीति वचनेन सायमाशस्यावश्यं कर्त्तव्यत्वात् ॥
* ॥
आमाजीर्ण्णस्य लक्षणमाह, --“तत्रामे गुरुतोत्क्लेशः शोथो गण्डाक्षिकूटगः ःउद्गारश्च यथाभुक्तमविदग्धः प्रवर्त्तते” ॥
गुरुता उदराङ्गयोः । उत्क्लेशः उपस्थितं वमन-मिव । अक्षिकूटोऽक्षिपुटकः । अविदग्धः अनम्लोनिर्गन्धश्च ॥
* ॥
विदग्धाजीर्ण्णस्य लक्षणमाह, --“विदग्धे भ्रमतृण्मूर्च्छापित्ताच्च विविधा रुजः ।उद्गारश्च सधूमाम्लः स्वेदो दाहश्च जायते” ॥
विविधा रुजः औषचोषदाहादयः ॥
* ॥
विष्टब्धा-जीर्ण्णस्य लक्षणमाह, --“विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः ।मलवाताप्रवृत्तिश्च स्तम्भो मोहोऽङ्गपीडनं” ॥
वातवेदनाः तोदभेदादयः ॥
स्तम्भो गात्राणां ।मोहो मूर्च्छा ॥
* ॥
रसशेषाजीर्ण्णस्य लक्षणमाह, “रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे” ॥
* ॥
एतस्य उपद्रवानाह, --“मूर्च्छा प्रलापो वमथुः प्रसेकः सादनं भ्रमः ।उपद्रवा भवन्त्येते मृतिश्च रसशेषतः” ॥
* ॥
अतिशयितेभ्यः आमाद्यजीर्ण्णेभ्यो विसूच्यादिरो-गानाह, --“आमं विदग्धं विष्टब्धमित्यजीर्ण्णं यदीरितं ।विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका” ॥
नात्र यथासङ्ख्यं तदा विष्टब्धाद्विलम्बिका भवितुमर्हति । सा च कफवाताभ्यां भवतीत्येकैकतो-ऽजीर्ण्णाद्विसूच्यादित्रयोत्पत्तिः ॥
* ॥
विसूच्यादि-निरुक्तिमाह, --“सूचीभिरिव गात्राणि तदुत्सन्तिष्ठतेऽनिलः ।यत्राजीर्ण्णेन सा वैद्यैर्व्विसूचीति निगद्यते” ॥
* ॥
विसूच्या निदानमाह, --“न तां परिमिताहारा लभन्ते विदितागमाः ।मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः” ॥
विदितागमाः ज्ञातायूर्व्वेदाः ॥
* ॥
विसूच्या लक्षण-माह, --“मूर्च्छातिसारोवमथूः पिपासाशूलं भ्रमोद्वेष्टनजृम्भदाहाः ।वैवर्ण्यकम्पौ हृदये रूजश्चभवन्ति तस्यां शिरसश्च भेदः” ॥
उद्वेष्टनं हस्तपादयोः । शिरसो भेदः शिरःशूलं ॥
विसूच्या उपद्रवानाह, --“निद्रानाशोऽरतिः कम्पो मूत्राघातो विसंज्ञता ।अमी उपद्रवा घोरा विसूच्याः पञ्च दारुणाः” ॥
अमी उपद्रवा घोरा अमी निद्रानाशादयः उप-द्रवाः सर्व्वेषामेव रोगाणां घोरा भयङ्कराः ।विसूच्याः पञ्च दारुणा विसूच्यास्तु पञ्चापि यदिस्युस्तदा दारुणाः प्राणभयङ्कराः ॥
* ॥
अलसक-लक्षणमाह, --“कुक्षिरानह्यतेऽत्यर्थं प्रताम्येत् परिकूजति ।निरूद्धो मारूतश्चैव कुक्षावुपरि धावति ॥
वातवर्चो निरोधश्च यस्यात्यर्थं भवेदपि ।तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु” ॥
आनह्यते आध्मायते । प्रताम्येत् ग्लायति । परि-कूजति आर्त्तनादं करोति । कुक्षौ अजीर्ण्णेननिरूद्धो मारुतः उपरि धावति हृदयकण्ठादिकंगच्छतीत्यर्थः । काश्यपस्त्वाह, --“नाधो याति न चाप्युर्द्ध्वमाहारो न च पच्यते ।कोष्ठे स्थितोऽलसीभूतस्ततोऽसावलसः स्मृतः” ॥
विसूच्यलसयोररिष्टमाह, --“यः श्यावदन्तौष्ठनखोऽल्पसंज्ञःछर्द्द्यर्द्दितोऽभ्यन्तरयातनेत्रः ।क्षामस्वरः सर्व्वविमुक्तसन्धि-र्यायान्नरः सोऽपुनरागमाय” ॥
सर्व्वविमुक्तसन्धिः सर्व्वे विमुक्ताः शिथिलीभूताःसन्धयो यस्य सः ॥
* ॥
विलम्बिकाया लक्षणमाह, --“दुष्टञ्च भुक्तं कफमारूताभ्यांप्रवर्त्तते नोर्द्ध्वमधश्च यत्र ।विलम्बिकां तां भृशदुश्चिकित्सा-माचक्षते शास्त्रविदः पुराणाः” ॥
भृशदुश्चिकित्सां प्रत्याख्यायोपचरणीयम् । इय-मसाघ्यैबेति जेज्जटः ॥
* ॥
जीर्ण्णस्याहारस्यलक्षणमाह, --“उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितं ।लघुता क्षुत्पिपासे च जीर्ण्णाहारस्य लक्षणं” ॥
* ॥
अथ चिकित्सा, --“हरीतकी तथा शुण्ठी भक्ष्यमाणा गुडेन वा ।सैन्धवेन युता वा स्यात् सातत्येनाग्निदीपनी ॥
गुडेन शुण्ठीमथवोपकुल्यांपथ्यां तृतीयामथ दाडिमं वा ।आमेष्वजीर्ण्णेषु गुदामयेषुवर्च्चो विवन्धेषु च नित्यमद्यात् ॥
व्योषं दन्ती त्रिवृच्चित्रं कृष्णामूलं विचूर्ण्णितं ।तच्चूर्ण्णं गुडसंमिश्रं भक्षयेत् प्रातरुत्थितः ॥
एतद्गुडाष्टकं नाम वलवर्ण्णाग्निवर्द्धनं ।शोथोदावर्त्तशूलघ्नं प्लीहपाण्ड्वामयापहं ॥
सर्व्वचूर्ण्णसमो गुडो देयः । केचित्तु द्विगुणं गुडंदत्त्वा गुटिकां कुर्व्वन्ति । रेचकोऽयं योगः ।गुडाष्टकम् ॥
* ॥
दहनाजमोदसैन्धवनागरमरि-चानि चाम्लतक्रेण । सप्ताहादग्निकरं पाण्ड्वर्शो-नाशनं परमं ॥
औषधमित्यध्याहार्य्यं, --“तत्रामे वमनं कार्य्यं विदग्धे लङ्घनं हितं ।विष्टब्धे स्वेदनं शस्तं रसशेषे शयीत च ॥
वचा लवणतोयेन बान्तिरामे प्रशस्यते ॥
कणासिन्धवचाकल्कं पीत्वा वा शिशिर म्भसा ॥
जलमत्र सरावमात्रं । वचा कर्षार्द्धमिता । सैन्धवंकर्षार्द्धमितं । द्वयोश्चूर्ण्णयुतेन जलेन पीतेन ।“कणादिकल्कं वा पीत्वा वान्तिरामे प्रशस्यते”इत्यनेनान्वयः ॥
* ॥
“धान्यनागरसिद्धं वा तोयं दद्याद्विचक्षणः ।आमाजीर्ण्णप्रशमनं शूलघ्नं वस्तिशोधनं ॥
भवेद् यदि प्रातरजीर्ण्णशङ्कातदाभयां नागरसैन्धवाभ्यां ।विचूर्ण्णितां शीतजलेन भुक्त्वाभुक्त्वामशङ्को मितमन्नकाले ॥
विदह्यते यस्य तु भुक्तमात्रंदंदह्यते हृच्च गलश्च यस्य ।द्राक्षां सितामाक्षिकसम्प्रयुक्तांलिढ्वाभयां चातिसुखं लभेत ॥
त्रिकटुकमजमोदा सैन्धवं जीरके द्वेसमधरणधृतानामष्टमो हिङ्गुभागः ।प्रथमकवलभुक्तं सर्पिषा चूर्ण्णमेत-ज्जनयति जठरेऽग्निं वातरोगांश्च हन्ति” ॥
अजमोदात्र यवानी । अन्तःसंमार्ज्जकत्वात् । जी-रके द्वे शुक्लं कृष्णञ्च । धरणमत्र मानं । तेनसमधरणं धृतानां तुल्यमानं ग्टहीतानां शुण्ठ्या-दीनां भागाः सप्त । तत्राष्टमो भागो हिङ्गुनः ।हिङ्ग्वष्टकम् ॥
* ॥
“शुद्धं सूतं गन्धकञ्च पलमानं पृथक् पृथक् ।हरीतकी च द्विपला नागरस्त्रिपलः स्मृतः ॥
कृष्णा च मरिचं तद्वत् सिन्धूत्थं त्रिपलं मतं ।चतुष्पला च विजया मर्द्दयेन्निम्बुकद्रवैः ॥
पुटानि सप्त देयानि घर्म्ममध्ये पुनः पुनः ।अजीर्णारिरयं प्रोक्तः सद्यो दीपनपाचनः ॥
भक्षयेद्द्विगुणं भक्ष्यं पाचयेद्भेदयेदपि ।अजीर्णारिः ॥
* ॥
“द्वौ क्षारौ चित्रकं पाठा करञ्जं लवणानि च ।सूक्ष्मैलापत्रकं भार्गो कृमिघ्नं हिङ्गु पौष्करं ॥
शटी दार्व्वो त्रिवृन्मुस्तं वचा चेन्द्रयवास्तथा ।वृक्षाम्लं जीरकं धात्री श्रेयसी चोपकुञ्चिका ॥
अम्लवेतसमम्लीका यवानी देवदारु च ।अभयातिविषा श्यामा हपुषारग्वधं समं ॥
तिलमुष्ककशिग्रूणां कोकिलाक्षपलाशयोः ।क्षाराणि लौहकिट्टञ्च तप्तं गोमूत्रसेचितं ॥
सूक्ष्मचूर्ण्णानि कृत्वा तु समभागानि कारयेत् ।मातुलुङ्गरसेनैतद्भावयेद्दिवसत्रयं ॥
दिनत्रयन्तु शुक्लेन तथार्द्रकरसेन च ।अत्यग्निकारकं चूर्णं प्रदीप्ताग्निसमप्रभं ॥
उपयुक्तं विधानेन नाशयत्यचिराद्गदान् ।अजीर्णमथ गुल्मांश्च प्लीहानं गुदजानि च ॥
उदराण्यन्त्रवृद्धिञ्च अष्ठीलां वातशोणितं ।प्रणुदत्युल्वनान्दोषान्नष्टमग्निं प्रदीपयेत् ॥
द्वौ क्षारौ स्वर्ज्जिका यवक्षारश्च । लवणाणिपञ्च ।वृक्षाम्लं विषाम्बिल इति लोके । श्रेयसी हरी-तकी । उपकुञ्चिका मगरैला । अम्लवेतसाभावेचुक्रं दातव्यं । श्यामा साण्ड । मुष्ककः मोष इतिलोके । कोकिलाक्षः कोइलषा इति लोके ।वृहदग्निमुखचूर्णं ॥
* ॥
“स्नुह्यर्कचित्रकैरण्डवरुणं सपुनर्णवं ।तिलापामार्गकदलीपलाशं तित्तिली तथा ॥
ग्टहीत्वा ज्वालयेदेतत् प्रस्थं भस्माखिलञ्च तत् ।जलाढके विपक्तव्यं यावत् पादावशेषितं ॥
सुप्रसन्नं विनिःस्राव्य लवणप्रस्थसंयुतं ।पक्कं निर्धूमकठिनं सूक्ष्मचूर्णोकृतं पुनः ॥
यवानीजोरकव्योषस्थूलजीरकहिङ्गभिः ।पृथगर्द्धपलैरेभिश्चूर्नितैस्तत् विमिश्रयेत् ॥
आर्द्रकस्य रसेनापि भावयेच्छोषयेत् पुनः ।शीतोदकेन तच्चूर्णं पिवेत् प्रातर्हि मात्रया ॥
तस्मिन् जीर्णेऽन्नमश्नीयाद्युषैर्जाङ्गलजै रसैः ।ईषदम्लैः सलवणैः सुखोष्णैर्वह्निदीपनैः ॥
एतेनाग्निर्व्विवर्द्धेत बलमारोग्यमेव च ।तत्रानुपानं शस्तं हि तक्रं वा भोजनं हितं ॥
मन्दाग्न्यर्शोविकारेषु वातश्लेष्मामयेषु च ।सर्व्वाङ्गशोथरोगेषु शूलगुल्मोदरेषु च ॥
अश्मर्य्यां शर्क्करायाञ्च विन्मूत्रानिलरोगिषु ।वेश्वानरक्षारः ॥
* ॥
“सामुद्रं लवणं ग्राह्यमष्टकर्षमितं बुधैः ।सौवर्च्चलं पञ्चकर्षं विडसैन्धवधान्यकं ॥
पिप्पली पिप्पलीमूलं पत्रकं कृष्णजीरकं ।तालीशं केशरं चव्यमम्लवेतसकं तथा ॥
द्विकर्षमात्राण्येतानि प्रत्येकं कारयेद्वुधः ।मरिचं जीरकं विश्वमेकैकं कर्षमात्रकं ॥
दाडिमं स्याच्चतुःकर्षं त्वगेले चार्द्धकर्षके ।एतच्चूर्णीकृतं सर्व्वं लवणं भास्कराभिधं ॥
भक्षयेच्छाणमानं तत्तक्रमस्तुककाञ्जिकैः ।वातश्लेष्मभवं गुल्मं प्लीहानमुदरं क्षयं ॥
अर्शांसि ग्रहणीं कुष्ठं विवन्धञ्च भगन्दरं ।शूलं शोथं श्वासकासावामदोषञ्च हृद्रुजं ॥
अश्मरीं शर्कराञ्चापि पाण्डुरोगं कृमीनपि ।मन्दाग्निं नीशयेदेतद्द्वीपनं पाचनं परं ॥
हिताय सर्व्वलोकानां भास्करेणैतदीरितं ।हन्यात् सर्व्वाण्यजीर्णानि भुक्तमात्रमसंशयं ॥
निम्बु रसादिकं दत्त्वा गुटिकामप्यकेकुर्व्वन्ति” ॥
अथ दाडिमस्य वीजानां चूर्णं कर्षचतुष्टयमितंदेयं । भास्करलवणचूर्णं ॥
* ॥
सैन्धवं समूलमगधाचव्यानलनागरं पथ्या । क्रमवृद्धि मग्निवृद्ध्यै वड-वानलनामचूर्ण्णं स्यात् ॥
वडवानलचूर्ण्णं ॥
* ॥
पथ्या-नागरकृर्ष्णाकरञ्जविल्वाग्निभिः सितातुल्यैः । वड-वानल इब जरयति बहुगुर्व्वपि भोजनं चूर्णंद्वितीयं वडवानलचूर्णं ॥
* ॥
“एलात्वङ्नागपुष्पाणां मात्रोत्तरविवर्द्धिता ।मरिचं पिप्पली शुण्ठी चतुःपञ्च षडुत्तरं ॥
द्रव्याण्येतानि यावन्ति तावती सितशर्करा ।चूर्णमेतत् प्रयोक्तव्यमग्निसन्दीपनं परं” ॥
समशर्करचूर्णं ॥
* ॥
“इन्द्रासनं सप्तपलं त्रिफलायाः पलत्रयं ।पलत्रयं त्र्यूषणस्य सितायाश्च चतुःपलं ॥
अमृता शतपुत्री च तथा कृष्णापराजिता ।आसां चूर्णं समादाय पलमात्रं पृथक् पृथक् ॥
भावयेदेकतः सर्व्वं भृङ्गराजरसेन तु ।स्वभाविकमिदं चूर्णं स्निग्धभाण्डे विनिक्षिपेत् ॥
विलिहन् मधुसर्पिर्भ्यां मन्दाग्नेः सहसा नरः ।मुच्यते ग्रहणीरोगात् गुदरोगात् सजाठरात् ॥
मेहं कुष्ठञ्च वीसर्पवातरोगान् सशोणितान् ।न चात्र परिहारोऽस्ति भोजनं सर्व्वकामिकं ॥
रोगानीकप्रशान्त्यर्थं मुनिभिः परिकीर्त्तितं ।अस्याभ्यासात् बलं वीर्य्यं पुष्टिदृष्टियशस्तथा ॥
त्रिसप्ताहप्रयोगेण जायते नात्र संशयः ।ज्वालामुखीचूर्णं ॥
* ॥
अथ अजीर्णे रसाः, --“द्विपलं गन्धकं शुद्धं पलमेकन्तु पारदं ।मृतं लोहं तथा ताम्रं कर्षद्वयमितं पृथक् ॥
संचूर्ण्य सर्व्वं संमिश्र्य द्रावयित्वाग्नियोगतः ।सम्यग्द्रुतं समस्तं तत्पञ्चाङ्गुलदले क्षिपेत् ॥
पुनः संचूर्ण्य तत्सर्व्वं लोहपात्रे निधाय च ।जम्बीरस्य रसं तत्र पूतं पलशतं क्षिपेत् ॥
चुल्ल्यां निवेश्य तद्यत्नात् मृदुना वह्निना पचेत् ।रसे तस्मिन् घनीभूते तत्संशोष्य विचूर्णयेत् ॥
पञ्चकोलकषायस्य चुक्रेण सहितस्य च ।भावनास्तत्र दातव्याः पञ्चाशत्संख्यया शनैः ॥
भृष्टटङ्कनचूर्णेन तुल्येन सह मेलयेत् ।मरिचेनापि तुल्येन तदर्द्धेन विडेन च ॥
भावयेत् सप्तकृत्वस्तच्चणकाम्लजलेन च ।ततः संशोष्य संपिष्य कूपीमध्ये निधापयेत् ॥
रसः क्रव्यादनामायं भैरवानन्दयोगिना ।उक्तः सिंहलराजाय बहुमांसाशिने पुरा ॥
भक्षयेद्भोजनस्यान्ते माषद्वयमितं रसं ।भक्षयित्वा रसं पश्चात् पिवेत्तक्रं ससैन्धवं ॥
अतीवगुरु यद्भुक्तमतिमात्रमथापि वा ।तत्सर्व्वं जीर्य्यति क्षिप्रं रसस्यैतस्य भक्षणात् ॥
शूलं गुल्मञ्च विष्टम्भं प्लीहानमुदरं तथा ।रसः क्रव्यादनामायं विनिहन्ति न संशयः”क्रव्यादो रसोऽजीर्णे ॥
* ॥
रसेन्द्रचिन्तामणौ रस-रत्नप्रदीपे रसप्रदीपे च ॥
“क्षारत्रयं सूतगन्धौ पञ्चकोलमिदं शुभं ।सर्ब्बैस्तुल्या जया भृष्टा तदर्द्धा शिग्रुजा जटा ॥
एतत् सर्व्वं जयाशिग्रुवह्निमार्क्कवजैर्द्रवैः ।भावयेत्रिदिनं घर्म्मे ततो लघुपुटे क्षिपेत् ॥
सप्तधार्द्रद्रवैर्घृष्टो रसो ज्वालानलो भवेत् ।निष्कोऽस्य मधुना लीढोऽनुपानं गुडनागरं ॥
हन्त्यजीर्णमतीसारं ग्रहणीमग्निमार्द्दवं ।श्लेष्महृल्लासवमनमालस्यमरूचिं जवात्” ॥
पञ्चकोलं, --पिप्पली पिप्पलीभूलं चव्यचित्रकनागरं । जयात्रविजया । मार्क्कवो भृङ्गराजः । लघुपुटे गजपुटे ।आर्द्रमार्द्रकं । निष्कः टङ्कः । ज्वालानलो रसो-ऽजीर्णे ॥
* ॥
रसप्रदीपे, --“टङ्कणं रसगन्धौ च समं भागत्रयं विषात् ।कपर्द्दः स्वर्ज्जिकाक्षारौ मागधी विश्वभेषजं ॥
पृथक् पृथक् कर्षमात्रं वसुभागमिहोषणं ।जम्बीराम्लैर्द्दिनं घृष्टं भवेदग्निकुमारकः ॥
विसूचीशूलवातादिवह्निमान्द्यप्रशान्तये” ।क्षारीयवक्षारः । अग्निकुमारोरसो विसूच्याद्य-जीर्णे ॥
* ॥
रसेन्द्रचिन्तामणौ, --“शुद्धसूतं गन्धकञ्च पलमानं पृथक् पृथक् ।हरीतकी च द्विपला नागरस्त्रिपलः स्मृतः ॥
कृष्णा च मरिचं तद्वत् सिन्धूत्थं त्रिपलं मतं ।चतुष्पला च विजया मर्दयेन्निम्बुकद्रवैः ॥
पुटानि सप्त देयानि घर्म्ममध्ये पुनः पुनः ।अजीर्णारिरयं प्रोक्तः सद्यो दीपनपाचनः ॥
भज्ञयेद्द्विगुणं भक्ष्यं पाचपेद्रेचयेदपि ।अजीर्णारिः ॥
* ॥
“पारदामृतलवङ्गगन्धकंभागयुग्ममरिचेन मिश्रितं ।तत्र जातिफलमर्द्धभागिकंतित्तिडीफलरसेन मर्द्दितं ॥
वह्निमान्द्यदशवनाक्त्रशनोरामवाण इति विश्रुतो रसः ।सङ्ग्रह ग्रहणि कुम्भकर्णक-मामवातखरदूषणं जयेत् ॥
दीयते तु चणकानुमानतःसद्य एव जठराग्निदीपनः ।रोचकः कफकुलान्तकारकःश्वासकासवमिजन्तुनाशनः ॥
पाराभाग १ विषभाग १ लवङ्गभाग १ गन्धक-भाग १ मरिचभाग ८ जायफलभाग २ । राम-वाणरसोऽजीर्णे ॥
* ॥
रसेन्द्रचिन्तामणौ, --“पलं चिञ्चाक्षारः पलपरिमितं पञ्चलवणं द्वयंसम्यक्पिष्टं भवति लघु निम्बुफलरसैः । ततस्तप्तंतस्मिन् पलपरिमितं शङ्खशकलं क्षिपेद्वारान्सप्त द्रवति तदनेनैव विधिना ॥
पलप्रमाणकटुकत्रयञ्च पलार्द्धमानेन च हिङ्गुभागः । विषंपलद्वादशभागयुक्तं तावान्रसो गन्धक एषचोक्तः --“बदरास्थिप्रमाणेन वटीमेतस्य कारयेत् ।भक्षयेत् सर्व्वदा सा स्यात् सर्व्वाजीर्ण्णप्रशान्तये ॥
सर्व्वोदरेषु शूलेषु विसूच्यां विविधेषु च ।अग्निमान्द्येषु गुल्मेषु सदा शङ्खवटी हिता” ॥
शङ्खवटी अजीर्ण्णे ॥
* ॥
रसप्रदीपे, --“स्नुगर्क्कचिञ्चापामार्गरम्भातिलपलाशजान् ।लवणान् भिषगादद्यात् प्रत्येकं पलमात्रया ॥
लवणानि पृथक् पञ्च ग्राह्याणि पलमात्रया ।स्वर्ज्जिका च यवक्षारष्टङ्कणं त्रितयं पलं ॥
सर्व्वं त्रयोदशपलं सूक्ष्मचूर्ण्णं विधाय तु ।निम्बूफलरसे प्रस्थसंमिते तत् परिक्षिपेत् ॥
तत्र शङ्खस्य शकलं पलं वह्नौ प्रताप्य तु ।वारान्निर्व्वापयेत् सप्त सर्व्वं द्रवति तद्यथा ॥
नागरं त्रिपलं ग्राह्यं मरिचञ्च पलद्वयं ।पिप्पली पलमाना स्यात् पलार्द्धं भृष्टहिङ्गुनः ॥
ग्रन्थिकं चित्रकं चापि यवानी जीरकं तथा ।जातीफलं लवङ्गञ्च पृथक् कर्षद्वयोन्मितं ॥
रसोगन्धो विषञ्चापि टङ्कणञ्च मनःशिला ॥
एतानि कर्षमात्राणि सर्व्वं संचूर्ण्य मिश्रयेत् ।शरावार्द्धेन चुक्रेण संनीय वटिकाञ्चरेत् ॥
माषप्रमाणां सा वैद्यैर्वृहच्छङ्खवटी स्मृता ॥
सर्ब्बाजीर्ण्णप्रशमनी सर्व्वशूलनिवारिणी ।विसूच्यलसकादीनां सद्यो भवति नाशिनी” ॥
वृहच्छङ्खवटिका अजीर्ण्णे ॥
* ॥
“टङ्कणकणामृतानां सहिङ्गुलानां समभागाः ।मरिचस्य भागयुगलं निम्बुनीरैर्व्वटी कार्य्या ॥
वटिकां कलायसदृशीमेकां द्वे वा समश्नीयात् ।सत्वरमजीर्ण्णशान्त्यै वह्नेर्वृद्ध्यै कफध्वस्त्यै” ॥
अजीर्ण्णकण्टको रसः ॥
* ॥
“जलपीतमपामार्गमूलं हन्याद्विसूचिकां ।सतैलं कारवेल्ल्यम्बु विधुनोति विसूचिकां ॥
बालमूलस्य निःक्वाथः पिप्पलोचूर्ण्णसंयुतः ।विसूचीनाशनः श्रेष्ठो जठराग्निविवर्द्धनः ॥
विल्वनागरनिःक्वाथो हन्याच्छर्द्दिविसूचिकां ।विल्वनागरकैडर्य्यक्वाथस्तदधिको गुणैः” ॥
कैडर्य्यं कट्फलम्, --“व्योषं करञ्जस्य फलं हरिद्रेमूलं समावाप्य च मातुलुङ्ग्याः ।छायाविशुष्का गुटिकाः कृतास्ताहन्युर्व्विसूचीं नयनाञ्जनेन” ॥
मातुलुङ्गी मधुकर्क्कटी । अनुभूतमिदम्, --“अपामार्गस्य पत्राणि मरिचानि समानि च ।अश्वस्य लालया पिष्टान्यञ्जनाद् घ्नन्ति सूचिकां ॥
विसूच्यामतिवृद्धायां तक्रं दधिसमं जलं ।नारिकेलाम्बु पेयं वा प्राणत्राणाय योजयेत् ॥
त्वक्पत्ररास्नागुरूशिग्रुकुष्ठै-रम्लप्रपिष्टैः सवचाशताह्वैः ।उद्वर्त्तनं खल्लिविसूचिकाघ्नंतैलं विपक्वञ्च तदर्थकारि” ॥
त्वक्तैलम् ॥
* ॥
“कुष्ठसैन्धवयोः कल्कः चुक्रं तैलं तु तच्छृतं ।विसूच्या मर्दनं तेन खल्लीशूलनिवारणम्” ॥
कुष्ठतैलम् ॥
* ॥
“पिपासायां तथोत्क्लेशे लवङ्गस्याम्बु शस्यते ।जातीफलस्य वा शीतं शृतं भद्रघनस्य वा ॥
* ॥
उत्क्लेशलक्षणम्, --“उत्क्लिश्यान्नं न निर्गच्छेत् प्रसेकष्ठीवनेरितं ।हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेदिति ॥
सरूग्वानद्धमुदरमम्लपिष्टैः प्रलेपयेत् ।दारूहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः” ॥
हैमवती श्वेतवचा । दारूषट्कम् ॥
* ॥
“तक्रेण युक्तं यवचूर्ण्णमुष्णंसक्षारमार्त्तिं जठरे निहन्यात् ।स्वेदो घटैर्व्वा बहुवास्पपूर्ण्णै-रूष्णैस्तथान्यैरपि पाणितापैः ॥
विलम्बिकालसकयोरयमेव क्रियाक्रमः ।अतण्वैतयोरूक्तं पृथक् नेह चिकित्सितम् ॥
तद्भस्मकं गुरूस्निग्धसान्द्रमन्दहिमस्थिरैः ।अन्नपानैर्नयेच्छान्तिं पित्तघ्नैश्च विरेचनैः ॥
अत्युद्धताग्निशान्त्यै माहिषदधिदुग्धसर्पींषि ।संसेवेतयवागूं समधूच्छिष्टां ससर्पिष्कां ।असकृत् पित्तहरणं पायसं प्रतिभोजनं ॥
श्यामात्रिवृद्धिपक्वञ्च पयोदद्याद्विरेचनं ॥
यत् किञ्चित् मधुरं मेध्यं श्लेष्मलं गुरू भीजनं ।सर्व्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा” ॥
सिततण्डुलं सितकमलं छागीक्षीरेण पायसंसिद्धं । भुक्त्वा घृतेन पुरुषो द्वादशदिवसाद्वुभु-क्षितो भवेत् ॥
* ॥
अथ विशिष्टद्रव्याजीर्णे विशि-ष्टपाचनद्रव्यमाह, --“अलं पनसपाकाय फलं कदलसम्भवं ।कदलस्य तु पाकाय बुधैरभिहितं घृतं ॥
घृतस्य परिपाकाय जम्बीरस्य रसो हितः ।नारिकेलफलतालवीजयोःपाचकं सपदि तण्डुलं विदुः ।क्षीरमाशु सहकारपाचनंचारमज्जनि हरीतकी हिता ॥
मधूकमालूरनृपादनानांपरूषखर्ज्जूरकपित्थकानां ।पाकाय पेयं पिचुमर्द्दवीजंघृतेऽपि तक्रेऽपि तदेव देयं ॥
खर्ज्जूरशृङ्गाटकयोः प्रशस्तंविश्वौषधं कुत्र च भद्रसुस्तं ।यज्ञाङ्गवोधिद्रुफलेषु शीतंप्लक्षे तथा वार्य्युषितं प्रणीतं ॥
तण्डुलेषु पयसः पयो हितंदीप्यकन्तु चिपिटे कणायुतं ।षष्टिका दधिजलेन जीर्य्यतेकर्क्कटी च सुमनेषु गीर्य्यते” ॥
सुमनेषु गोधूमेषु । गीर्य्यते कथ्यते ।“गोधूभमाषहरिमन्थसतीलमुद्ग-पाको भवेत् झटिति मातुलपुत्त्रकेण ।खण्डञ्च खण्डयति माषभवं त्वजीर्णंतैलं कुलत्थमथवा विदधाति जीर्णं” ॥
मातुलपुत्त्रकः धत्तूरफलं । --“कङ्गुश्यामाकनीवाराः कुलत्थश्चाविलम्बितं ।दध्नो जलेन जीर्य्यन्ति वैदलाः काञ्जिकेन तु ॥
पिष्टान्नं शीतलं वारि कृशरान् सैन्धवं पचेत् ।माषेण्डरी निम्बमूलं पायसं मुद्गयूषकैः” ॥
वटोवेशवाराल्लवङ्गेन फेणीशमं पर्पटः शिग्रुवीजेनयाति । कणामूलतो लड्डुकापूपशट्टाविपाकोभवेच्छष्कुली मण्डयोश्च ॥
वेशवारः वेगर इतिलोके । तद् यथा । --“स्ने हो निशाहिङ्गुलवङ्गकैला-धान्याकजीरार्द्रकनागराणि ।अम्लोषणं सैन्धवपूर्णमन्नेयथोचितं संस्कृतये प्रणीतम्” ॥
इति ॥
शट्टा शट्टकः पानकविशेषः । मण्डः माण्डेइति लोके । --“किमत्र चित्रं वहुमत्स्यमासभोजी सुखी काञ्जिकपानतः स्यात् ।इत्यद्भुतं केवलवह्निपक्व-मांसेन मत्स्यः परिपाकमेति ॥
आममाम्रफलं मीने तद्वीजं पिशिते हितं ।कूर्म्ममांसं यवक्षाराच्छीघ्रं पाकमुपैति हि ॥
कपोतपारावतनीलकण्ठकपिञ्जलानां पिशितानि भुक्त्वा ।काशस्य मूलं परिपीय पिष्टंसुखी भवेन्ना वहुशो हि दृष्टं ॥
कपोतो धवलः पाण्डुः ।“शाकानि सर्व्वाण्यपि यान्तिपाकं क्षारेण सद्यस्तिलनालजेन ।चञ्चूकसिद्धार्थकवास्तुकानांगायत्रिसारक्वथितेन पाकः” ॥
चञ्चूकं चेचूरु इति लोके । गायत्री खदिरः ।“पलङ्किकाकेमुककारवेल्ली-वार्त्ताकुवंशाङ्कुरमूलकानां ॥
उपोदिकालावुपटोलकानांसिद्धार्थको मेघरवस्य पक्ता” ॥
मेघरवः चवराई इति लोके । --“विपच्यते शूरणकं गुडेनतथालुकं तण्डुलजोदकेन ।पिण्डालुकं जीर्य्यति कोरदूषात्कसेरुपाकः किल नागरेण ॥
लवणस्तण्डुलतोयात् सर्पिर्जम्बीरकाद्यम्लात् ।मरिचादपि तच्छीघ्रं पाकं यात्येव काञ्जिकात्तैलं ॥
क्षीरं जीर्य्यति तक्रेन तद्गव्यं कोष्णमण्डकात् ।माहिषं माणिमन्थेन शङ्खचूर्णेन तद्दधि” ॥
मण्डकः माण्डे इति लोके, --“रसाला जीर्य्यति व्योषात् खण्डं नागरभक्षणात्सिता नागरमुस्तेन तथेक्षुश्चार्द्रकारसात् ।ञरामिरागैरिकचब्दनाभ्या-मभ्येति शीघ्रं मुनिभिः प्रणीतं ।उष्णेन शीतं शिशिरेण चोष्णंजीर्णो भवेत् क्षारगणस्तथाम्लैः” ॥
इरा मदिरा ।“तप्तं तप्तं हेम वा तारमग्नौतोये क्षिप्तं सप्तकृत्वस्तदम्भः ।पीत्वाजीर्णं तोयजातं निहन्या-त्तत्र क्षौद्रं भद्रयुक्तं विशेषात्” ॥
तत्र तोयाजीर्णे । इति जठराग्निविकाराजीर्ण-विसूचिकालसविलम्बिकाचिकित्सा । इति भाव-प्रकाशः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
