| YouTube Channel

अघोषः (aghoSaH)

 
Apte Hindi
Hindi
अघोषः
पुं*
- -
"प्रत्येक वर्ग के दो प्रथम दो अक्षर, श, ष, तथा स"
E Bharati Sampat
Sanskrit
(वि) नास्ति घोषः यस्य यत्र वा १.ध्वनिहीनः, निःशब्दः। २.न अल्पः घोषः शब्दः यत्र अल्पध्वनियुक्तः। (पुं) ३.न घोषः आभीरप्ल्ली यत्र आभीरप्ल्लीशून्यदेशादिः। ४.सञ्ज्ञाविशेषः, वर्गप्रथमद्वितीयवर्णाः शषसाश्च ‘खयां यमाः खयःकःपौ विसर्गः शर एव एते श्वासानुप्रधाना अघोषाश्च’ सि०कौ०१२।
शब्दकल्पद्रुमः
Sanskrit
अघोषः, त्रि, (नास्ति घोषः शब्दो यत्र बहुव्रीहिःशब्दशून्ये, अल्पः घोषः शब्दो यत्र बहुव्रीहिःअल्पध्वनियुक्ते तथाहि, --“तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः”
इति स्मरणात् ।) आभीरशून्यदेशादिः शब्द-रहितः अल्पध्वनियुक्तः कलापादिव्याकरणस्यसंज्ञाविशेषे पुं वर्गप्रथमद्वितीयवर्णाःशषसाश्च