| YouTube Channel

अघमर्षणं (aghamarSaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
अघमर्षणं, त्रि, (अघं पापं मृष्यते उत्पन्नत्वेऽपिनाशनेन कर्म्माक्षमत्वात् सह्यतेऽनेन अघ + मृष्+ करणेल्युट् ।) पापनाशनं सर्व्वपापध्वंसि-जप्यं इत्यमरः
(उत्पन्नपापनाशार्थं जप्ये मन्त्र-भेदे यथा सन्ध्यामन्त्रे द्रुपदादिवेत्यादि) अश्वमेध-यज्ञाङ्गावभृथस्नानमन्त्रः वैदिकसन्ध्यान्तर्गत-मन्त्रकरणकाघ्रातजलप्रक्षेपरूपपापनाशकक्रिया-विशेषः इति स्मृतिः
तान्त्रिकसन्ध्यायान्तु, --“षडङ्गन्यासमाचर्य्य वामहस्ते जलं ततः ।गृहीत्वा दक्षिणेनैव संपुटं कारयेद्बुधः
शिववायुजलपृथ्वीवह्निवीजैस्त्रिधा पुनः ।अभिमन्त्र्य मूलेन सप्तधा तत्त्वमुद्रया
निःक्षिपेत् तज्जलं मूर्द्ध्नि शेषं दक्षे निधाय ।इडयाकृष्य देहान्तःक्षालितं पापसञ्चयं
कृष्णवर्णं तदुदकं दक्षनाड्या विरेचयेत् ।दक्षहस्ते तन्मन्त्री पापरूपं विचिन्त्य
पुरतो वज्रपाषाणे निक्षिपेदस्त्रमुञ्चरन्”
इति तन्त्रसारः