अघमर्षण (aghamarSaNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishअघमर्षण (-णः-णा-णं) An expiatory prayer: reciting mentally a parti-
cular passage from the Vedas while a little water, in the palm of
the right hand, is held to the nose
this forms a part of the
daily ceremonies of the Brahmans.
(-णः) The author of the
passage recited upon the above occasion.
अघ sin, and सृष to
bear with, or to sprinkle, युच्
Yates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
Englishअघमर्षण
(-णः-णा-णं) An expiatory prayer: reciting mentally
a particular passage from the Vedas, while a little water, in the palm of the
right hand, is held to the nose
this forms a part of the daily ceremonies of
the Brahmans.
(-णः) The author of the passage recited upon the above
occasion.
अघ sin, and मृष to bear with, or to sprinkle, युच
Monier Williams Cologne
EnglishMacdonell
EnglishGoldstucker
Englishअघमर्षण Tatpur. I. m. f. n. (-णः-णी-णम्) An expiatory
prayer: reciting mentally a particular passage from the Ve-
das, while a little water, in the palm of the right hand, is
held to the nose
this forms a part of the daily ceremonies
of the Brahmans.
II. m. (-णः) The son of Madhuchhandas and author of the
passage recited upon the above occasion. E. अघ and मर्षण.
Apte Hindi
Hindiअघमर्षण
वि* अघम्-मर्षण -
"विशोधक, पाप को हटाने वाला, ऋग्वेद के मन्त्र जिनका सन्ध्या-प्रार्थना के समय प्रायः ब्राह्मणों द्वारा पाठ होता है"
Shabdartha Kaustubha
Kannadaअघमर्षण
पदविभागः - > त्रिलिङ्गः
कन्नडार्थः - > ಸಕಲ ಪಾಪಗಳ ನಾಶಕ್ಕಾಗಿ ಜಪಿಸುವ ಮಂತ್ರ
निष्पत्तिः - > मृष (तितिक्षायाम) “ल्युट्” (३-३-११७) ।
व्युत्पत्तिः - > मृश्यतेऽनेन । अघस्य मर्षणः ।
अघमर्षण
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಕಲ ಪಾಪಗಳ ನಾಶಕ್ಕಾಗಿ ಜಪಿಸುವ ಮಂತ್ರ
विस्तारः - > अघमर्षणो मन्त्रः ।
L R Vaidya
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
Germanअभिधानचिन्तामणिः
Sanskritचरित्रं चरिताचारौ चारित्रचरणे अपि ॥ ८४३ ॥
वृत्तं शीलं च सर्वैनोध्वंसिजप्येऽघमर्षणम् ।
चरित्र (क्ली), चरित (पुं), आचार (पुं), चारित्र (क्ली), चरण (क्ली), वृत्त (क्ली), शील (पुंक्ली), अघमर्षण (वा)
Mahabharata
EnglishAghamarshaṇa, a ṛshi (cf. BR.). § 677 (Mokshadh.): XII, 245, 8899 (among the authors of the duties of the fourth mode of life).
पुराणम्
Englishअघमर्षण / AGHAMARṢAṆA. He was a great hermit of austerity, who had observed the duties pertaining to vānaprastha (the third of the four stages of life--forest hermit). (M.B., śānti Parva, Chapter 244, Stanza 16).
शब्दकल्पद्रुमः
Sanskritअघमर्षणं, त्रि, (अघं पापं मृष्यते उत्पन्नत्वेऽपिनाशनेन कर्म्माक्षमत्वात् सह्यतेऽनेन अघ + मृष्+ करणेल्युट् ।) पापनाशनं । सर्व्वपापध्वंसि-जप्यं । इत्यमरः ॥
(उत्पन्नपापनाशार्थं जप्ये मन्त्र-भेदे यथा सन्ध्यामन्त्रे द्रुपदादिवेत्यादि) अश्वमेध-यज्ञाङ्गावभृथस्नानमन्त्रः । वैदिकसन्ध्यान्तर्गत-मन्त्रकरणकाघ्रातजलप्रक्षेपरूपपापनाशकक्रिया-विशेषः । इति स्मृतिः ॥
तान्त्रिकसन्ध्यायान्तु, --“षडङ्गन्यासमाचर्य्य वामहस्ते जलं ततः ।गृहीत्वा दक्षिणेनैव संपुटं कारयेद्बुधः ॥
शिववायुजलपृथ्वीवह्निवीजैस्त्रिधा पुनः ।अभिमन्त्र्य च मूलेन सप्तधा तत्त्वमुद्रया ॥
निःक्षिपेत् तज्जलं मूर्द्ध्नि शेषं दक्षे निधाय च ।इडयाकृष्य देहान्तःक्षालितं पापसञ्चयं ॥
कृष्णवर्णं तदुदकं दक्षनाड्या विरेचयेत् ।दक्षहस्ते च तन्मन्त्री पापरूपं विचिन्त्य च ॥
पुरतो वज्रपाषाणे निक्षिपेदस्त्रमुञ्चरन्” ॥
इति तन्त्रसारः ॥
वाचस्पत्यम्
Sanskritअघमर्षण अघं पापं मृष्यते उत्पन्नत्वेऽपि नाशनेनकर्म्माक्षमत्वात् सह्यतेऽनेन मृष--ल्युट् ६ त० । उत्पन्न-पाषनाशार्थं जप्ये मन्त्रभेदे तच्च द्रुपदादिवेत्यादि, ऋतञ्चसत्यञ्चेत्यादि आपोहिष्ठेत्यादि सूक्तञ्च । तच्च अन्तर्जलेजप्यम् तत्फलञ्चोक्तं ब्राह्मणसर्वस्वे । यथा “बौधा-यनः “ऋतञ्च सत्यञ्चाद्यघमर्षणम् त्रिरन्तर्जले जपन्सर्वस्मात् पापात् प्रमुच्यते” । योगियाज्ञवल्क्यः “हत्वालोकानिमांस्त्रीन् हि त्रिः पठेदघमर्षणम् । यथाश्वमेधा-बभृथमेवं तन्मनुरब्रवीत्” इति । हारीतः “पातकोपपा-तकमहापातकानामेकतमसन्निपातेऽघमर्षणमेव जपेत्” इति ।बृहद्विष्णुः “यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः ।तथाघमर्षणं सूक्तं सर्वपापप्रणाशनम्” इति । योगियाज्ञ-वल्क्यः “स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः । अघ-मर्षणसूक्तेन अश्वमेधावभृत्समम्” इति । शङ्खः “जलनि-मग्नः प्राणान् संयम्य त्रिरावृत्ताघमर्षणसूक्तेन स्नायात्नास्त्यघमर्षणात् परमन्तर्ज्जले” इति । गौतमः“अन्तर्जलेऽघमर्षणं त्रिरावर्त्तयन् सर्वपापेभ्यो मुच्यते” इति ।अत्रिः “अपि चाप्सु निमज्जित्वा त्रिः पठेदघमर्षणम् ।यथाश्वमेधावभृथं तथैतन्मनुरब्रवीत्” इति । वशिष्ठः “अपिचाप्सु निमज्जानः त्रिः पठेदघमर्षणम् । यथाश्वमेधा-वभृथं तादृशं मनुरब्रवीत्” इति । आपस्तम्बः “अपिचाप्सु निमज्जित्वा त्रिः पठेदघमर्षणम्” । यथाश्व-मेधयज्ञो हि मनुस्तादृशमाह तत्” इति । बौधायनः“त्रिरात्रं चाप्युपवसन् त्रिरह्नाभ्युपयन्नपः । प्राणानम्बुनिसंयम्य त्रिः पठेदघमर्षणम् । “यथाश्वमेधावभृथ-मेवं तन्मनुरब्रवीत्” इति । योगियाज्ञवल्क्यः “त्र्यहंचोपवसेद् यस्तु त्रिरह्नोभ्युपयन्नपः । मुच्यते पातकैःसर्वैः जप्त्वा त्रिरघमर्षणम्” इति । रहस्ये बृहन्मनुः“मातरं भगिनीं गत्वा मातृस्वसारं स्नुषां सखीं सना-भ्याञ्च अगम्यागमनं कृत्वा अघमर्षणम् अन्तर्जले त्रिरा-वर्त्य एतस्मात् पापात् पूतो भवतीति” । तथा “गुरुतल्पगमनंकृत्वा अघमर्षणमन्तर्ज्जले त्रिरावर्त्य एतस्मात् पापात् पूतोभवतीति” । अत्र पापगौरवमाकलय्य संयतेन मास्येकं यावत्जलमवगाह्याघमर्षणसूक्तं त्रिरावर्त्य स्नातव्यम् । तथा चलघुयमः “महापातककर्त्तारश्चत्वारश्च विशेषतः । अग्निंप्रविश्य शुद्ध्यन्ति स्नात्वा वाघ इति क्रतौ । रहस्यकरणे चैवमासमभ्यस्य पौरुषम् । अघमर्षणञ्च वा सूक्तं शुध्येच्चान्त-र्जलेस्थितः” इति । बृहद्यमः “अथ ब्रह्महत्यां कृत्वा प्राचींवा उदीचीं वा दिशमुपनिष्क्रम्य प्रभूतेनेन्धनेनाग्निं प्रज्वा-ल्याघमर्षणं चाष्टसहस्रमावर्त्य जुहुयात् तस्मात् पापात् पूतोभवतीति” । हारीतश्च “अन्तर्ज्जले त्रिरावर्त्य मुच्यतेब्रह्महत्ययेति” । वृद्धापस्तम्बः “अकार्य्यकरणे चैव अभ-क्ष्यस्य च भक्षणे । अघमर्षणसूक्तेन पीत्वापः शुध्यते नरः” ।वशिष्ठः “मनसा पापं कृत्वा अघमर्षणं जपेत्” इति ।वृद्धापस्तम्बः “क्षत्रियागमने वैश्यागमने चैव तापसीम् ।त्रिरावर्त्य विशुद्धः स्यात् शूद्रागाम्यघमर्षणम्” इति ।तापसीमिति तापसीम् ऋचमित्यर्थः शङ्खलिखितौ“ब्रह्महा “त्रिरात्रोपोषितोऽन्तर्जलेऽघमर्षणं त्रिरावर्त्त-येत्” इति । याज्ञवल्क्यः त्रिरात्रोपोषितोजप्त्वाब्रह्महा त्वघमर्षणम् । अन्तर्जले विशुद्ध्येत्तु दत्त्वा गान्तुपयस्विनीम्” इति । प्रकाशविषये बौधायनः “तीर्थं गत्वाततः शुचिरात्मा उदकान्ते स्थण्डिले उद्धृत्य सकृच्छिन्नवाससासकृत् पूर्णेन पाणिना आदित्याभिमुखः अघमर्षणमध्याय-मधीयीत इति” ।षडङ्गन्यासं कृत्वा वामहस्ते जलं निधाय दक्षिणहस्तेनजलमाच्छाद्य हं यं रं लं वं इति त्रिरभिमन्त्र्य मूलमु-च्चरन् गलितोदकविन्दु भिस्तत्वमुद्रया सप्तधा मूर्द्धानमभ्युक्ष्यशेषजलं दक्षिणहस्ते समादाय तेजोरूपं ध्यात्वा इडयाकृष्यदेहान्तःपापं प्रक्षाल्य कृष्णवर्णं तज्जलं ध्यात्वा पिङ्गलयाविरेच्य पुरः कल्पितवज्रशिलायां फडिति मन्त्रेण पाप-पुरुषस्वरूपं तज्जलं निःक्षिपेदित्यघर्षणम् इति तन्त्र-सारे तान्त्रिकाघमर्षणमुक्तम् तत्प्रमाणं तु तत्रैवावगम्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
