| YouTube Channel

अग्रदानी (agradAnI)

 
E Bharati Sampat
Sanskrit
(वि) (अग्रदानिन्)। अग्रे दानं प्रेतोद्देशेन अस्य अस्ति अग्रदान+इनिः। ‘अत इनिठनौ’ ५.२.११५। १. अग्रे दानकर्ता २. अग्रे दीयते अस्मै अग्र+डु दाञ्(दाने)+ल्युट् ‘कृत्यल्युटो बहुलम्’ ३.३.११३। प्रेतोद्देश्यकदानप्रतिग्राही विप्रः। ‘ग्रहणात्तिलदानानामग्रदानी बभूव सः’ ब्रह्मवै०
शब्दकल्पद्रुमः
Sanskrit
अग्रदानी, [न्]
पुं,
(अग्रे दानं प्रेतोद्देशेन तिला-द्यर्पणं ग्राह्यत्वेन विद्यतेऽस्य अग्र + दान + विद्य-मानार्थे इन्) पतितब्राह्मणविशेषः प्रेत-सम्प्रदानकषडङ्गतिलादिद्रव्यग्राही यथा, --“लोभी विप्रश्च शूद्राणामग्रे दानं गृहीतवान् ।ग्रहणे मृतदानानामग्रदानी बभूव सः”
इति ब्रह्मवैवर्त्तपुराणं
तत्पर्य्यायः आग्रहा-रिकः इति स्मृतिः