| YouTube Channel

अग्निमुखी (agnimukhI)

 
Monier Williams Cologne
English
अग्नि॑—मुखी
f.
Semecarpus Anacardium
Gloriosa (or Methonica) Superba.
Apte Hindi
Hindi
अग्निमुखी
स्त्री*
अग्निः-मुखी -
रसोई घर
Shabdartha Kaustubha
Kannada
अग्निमुखी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗೇರುಮರ
निष्पत्तिः - > “डीप्” (४-१-४१)
व्युत्पत्तिः - > अग्निरिव मुखं यस्याः |
अग्निमुखी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗಾಯತ್ರೀಮಂತ್ರ
व्युत्पत्तिः - > अग्नेरिव मुखं मुखत्वेन कल्पितं यस्याः
प्रयोगाः - > “कदाचिदपि नो विद्वान् गायत्रीमुदके जपेत् गायत्र्यग्निमुखी यस्मात्तस्मादुत्थाय तां जपेत्” |
उल्लेखाः - > गोभिलः
अग्निमुखी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನೀರುಹಿಪ್ಪಲಿ
अग्निमुखी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಬೆಣ್ಣೆಬಿದಿರುಸೊಪ್ಪು
अग्निमुखी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಚಂದ್ರನ ಸೂಕ್ಷ್ಮವಾದ ರೇಖೆ
अग्निमुखी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅಮೃತಬಳ್ಳಿ
अग्निमुखी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸೋಮಲತೆ
अग्निमुखी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಚಂದ್ರನ ಕಲೆ (ಹದಿನಾರನೆಯ ಒಂದು ಭಾಗ)
विस्तारः - > “लाङ्गलिकाख्यैपदौ विशल्यायां योषिति इन्दुलेखामृतासोमलताशशिकलासु च” - मेदि०
L R Vaidya
English
agni-muKI {% f. %} kitchen.
E Bharati Sampat
Sanskrit
(स्त्री) अग्निरिव मुखम् अग्रं यस्याः। अग्निमुख+ङीष् ‘षिद्गौरा०’ ४.१.४१। १.भल्लातकीवृक्षः। ‘अग्निमुखी भल्लातकी त्रिषु’ अमरः। २.अग्निरेव मुखं मुखत्वेन कल्पितं यस्याः गायत्रीमन्त्रः ‘कदाचिदपि नो विद्वान् गायत्रीमुदके जपेत् गायत्र्यग्निमुखी यस्मात् तस्मादुत्थाय तां जपेत्’ गोभिलः। ३. अग्निः इव उत्तप्तं मुखं यस्याः पाकशाला
शब्दकल्पद्रुमः
Sanskrit
अग्निमुखी,
स्त्री,
(अग्निरिव मुखं यस्याः बहु-व्रीहिः ।) भल्लातकी (भेला) इत्यमरः
ला-ङ्गलिकी इति राजनिर्घण्टः
वाचस्पत्यम्
Sanskrit
अग्निमुखी स्त्री अग्निरिव मुखमग्रं यस्याः गौरादित्वात्ङीष् (भेला) भल्लातकवृक्षे, लाङ्गलिकावृक्षे (विषलाङ्गला)अग्निरेव मुखं मुखत्वेन कल्पितं यस्याः गौरा० गायत्री-मन्त्रे “कदाचिदपि नो विद्वान् गायत्रीमुदकेजपेत् गायत्र्यग्निमुखी यस्मात्तस्मादुत्थाय तां जपेदिति”गोभिलः तस्याश्च “सोऽकामयत यज्ञं सृजेयेति मुखत-एव त्रिवृतमसृजत तं गायत्री छन्दोऽन्वसृज्यताग्निर्देवताब्राह्मणोमनुष्योवसन्तऋतुस्तस्मात् त्रिवृत् स्तोमानां मुखं, गायत्री च्छन्दसामग्निर्देवानमिति” श्रुतौ अग्निना समंप्रजा-पतिमुखजातत्वात् तथात्वम् अस्मिंश्च पक्षे अग्नेरिवमुखं प्रजापतिमुखं मुखमुत्पत्तिद्वारमस्या इति विग्रहःगौरा० गायत्रीमन्त्रश्च गायत्रीशब्दे वक्ष्यते विप्रेतु
पु०
अग्निरिव उत्तप्तं मुखं यस्याः गौ० ङीष् पाक-शालायाम् स्त्री अग्निर्मुखमाद्यो यस्य अग्निप्रभृतौ देवे
त्रि०