| YouTube Channel

अखिन्नः (akhinnaH)

 
E Bharati Sampat
Sanskrit
(वि) खिन्नः। १.क्लेशरहितः। ‘मखेष्वखिन्नोऽनुमतः पुरोधसा’ किरा०१.२२। २.अक्लिष्टः, अनायाससाध्यः। अखिलः (वि) खिलम् अवशिष्टम् अस्य १.सम्पूर्णः, समस्तः। ‘कृत्स्नं समस्तनिखिलाखिलानि’ अमर:। ‘तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम्’ रघुः४.४। (स्त्री) अखिला खिल्यते कणशः आदीयते खिल(उञ्छे)+घञ् ‘हलश्च’ ३.३.१२१। खिला २.अनूषरक्षेत्रम्, कृष्टभूम्यादिः। ‘न निशाखिलयाऽपि वापिका प्रससाद गृहिलेव मानिनी’ नैष०२.७७।