| YouTube Channel

अक्षयः (akSayaH)

 
Hindi
Hindi
अनन्त
Wordnet
Sanskrit
Synonyms:
अविनाशः, अक्षयः
noun
विनाशस्य अभावः।
"किं भवान् जगति वस्तूनाम् अविनाशस्य कल्पनां कर्तुं शक्नोति।"
शब्दकल्पद्रुमः
Sanskrit
अक्षयः त्रि, (नास्ति क्षयो यस्य सः बहुब्रीहिः ।)क्षयरहितः अव्ययः कल्पान्तस्थायी यथा --“अक्षराणि फलान्याहुरमरांस्त्रिदशानिव ।कल्पान्तस्थानसम्बन्धान्नजन्या नाशवर्ज्जिनः”
इति मीमांसककारिका
अपि भविष्य-पुराणं ।“चतुर्द्दश्यां तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः ।योऽब्दमेकं भुञ्जोत शिवार्च्चनपरो नरः
यत् पुण्यमक्षयं प्रोक्तं सततं सत्रयाजिनां ।तत् पण्यं सफलं तस्य शिवलोकञ्च गच्छति”
इति तिथ्यादितत्त्वं
*
पापपुण्याक्षयजनक-योगविशेषः यथा ज्योतिषे, --“सोमवारेऽप्यमावास्या आदित्याहे तु सप्तमी ।चतुर्थ्यङ्गारवारे तु अष्टमी वृहस्पतौ
अत्र यत् क्रियते पापमथवा धर्म्मसञ्चयः ।षष्टिजन्मसहस्राणि प्रति जन्म तदक्षयं”
इति तिथ्यादितत्त्वं
(अनन्तः अक्षयकालाभि-मानी अः वासुदेवः तस्मिन् क्षयो निवासोऽस्यइति व्युत्पत्त्या ब्रह्मणिष्ठः ।)